पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११
निर्गुणमानसपूजा।


ध्यातव्याभावविज्ञान निदिध्यासनमात्मन ।
समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३० ॥

समाधिरात्मनो नाम नान्यश्चित्तस्य विभ्रम ।
तत्रैव ब्रह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१॥

एव वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।
कुर्वना मरण वापि क्षण वा सुसमाहित ॥ ३२ ॥

सर्वदुर्वासनाजाल पदपासुमिव त्यजेत् ।
विधूयाज्ञानदु खौघ मोक्षानन्द समश्नुते ॥ ३३ ॥

इति श्रीमत्परमहंसपरिव्राजकाचायस्य
श्रीगोविदभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवत कृतौ
निर्गुणमानसपूजा संपूर्णा