पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
निर्गुणमानसपूजा।

अज्ञानोच्छिष्टकरस्य क्षालन ज्ञानवारिणा ।
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालन स्मरेत् ॥ २२ ॥

रागादिगुणशून्यस्य शिवस्य परमात्मन ।
सरागविषयाभ्यासत्यागस्ताम्बूलचवणम् ॥ २३ ॥

अज्ञानध्वान्तविध्वसप्रचण्डमतिभास्करम् ।
आत्मनो ब्रह्मताज्ञान नीराजनमिहात्मन ॥ २४ ॥

विविधब्रह्मसदृष्टिार्मालिकाभिरलकृतम् ।
पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ २५ ॥


परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।
कूटस्थाचलरूपोऽहमिति ध्यान प्रदक्षिणम् ॥ २६ ॥

विश्ववन्धोऽहमेवास्मि नास्ति वन्धो मदन्यत ।
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ २७ ॥

आत्मन सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
नामरूपव्यतीतात्मचिन्तन नामकीर्तनम् ॥ २८ ॥

श्रवण तस्य दवस्य श्रोतव्याभावचिन्तनम् ।
मनन स्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ २९ ॥