पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९
निर्गुणमानसपूजा।


ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ १४ ॥

निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् |
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिहः ॥ १५ ॥

त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६ ॥

अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया ।
नान्येनेत्यनुसंधानमात्मनश्चन्दनं भवेत् ॥ १७ ॥

रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८ ॥

ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९ ॥

समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं संदर्शयेद्बुधः ॥ २० ॥

नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१ ॥