पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

कालभैरवाष्टकम् ।


भूतसङ्घनायकं विशालकीर्तिदायकं
काशिवासिलोफपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं
काशिकापुराधिनाथकालभैरवं भजे ॥ ८ ॥

कालभैरवाष्टकं पठन्ति ये मनोहरं
ज्ञानमुक्तिसाधकं विचित्रपुण्यवर्धनम् ।
शोकमोहलोभदैन्यकोपतापनाशनं
ते प्रयान्ति कालभैरवाङ्घ्रिसन्निधिं ध्रुवम् ॥ ९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविंदभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
कालभैरवाष्टकं सम्पूर्णम् ॥