पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८
दक्षिणामूर्तिस्तोत्रम् ।


मुदिताय मुग्धशशिनावतंसिने
 भसितावलेपरमणीयमूर्तये ।
जगदिन्द्रजालरचनापटीयसे
 महसे नमोऽस्तु वटमूलवासिने ॥ १६ ॥

व्यालाम्बिनीभिः परितो जटाभिः
 कलावशेषेण कलाधरेण ।
पश्यल्ललाटेन मुखेन्दुना च
 प्रकाशसे चेतसि निर्मलानाम् ॥ १७ ॥

उपासकानां त्वमुमासहायः
 पूर्णेन्दुभावं प्रकटीकरोषि ।
यदद्य ते दर्शनमात्रतो में
 द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥

यस्ते प्रसन्नामनुसन्दधानो
 मूर्तिं मुदा मुग्धशशाङ्कमौलेः ।
ऐश्वर्यमायुर्लभते च विद्या-
 मन्ते च वेदान्तमहारहस्यम् ॥ १९ ॥


इति दक्षिणामूर्तिस्तोत्रं संपूर्णम् ॥