पृष्ठम्:शङ्करविजयः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
115
अष्टमस्सर्गः

वंशो महान्मे तपनात्प्रवृत्तो
न तत्र मादृग्जनिता न जातः ।
पदच्युतोऽहं प्रथमं सभार्य-
स्सलक्ष्मणोऽरण्यमुपागतश्च ॥ ८५ ॥

तत्रापि भार्यामहरच्छलेन
स रावणो राक्षसपुङ्गवो में ।
सा चायुनाशोकवने समास्ते
कृशा वियोगात्स्वत एव तन्वी ॥ ८६ ॥

तीर्त्वा समुद्रं विनिहत्य दुष्टं
बलेन सीतामहमाहरामि ।
यथा तथोपायमुदाहर त्वं
न मे त्वदन्योऽस्ति हितोपदेष्टा ॥ ८७ ॥

इतीरितो राममुवाच विद्वन्
मा राम शोकस्य वशं गतोऽभूः ।
वंशद्वये सन्ति नृपा महान्तः
संप्राप्य​ दुःखं परिमुक्तदुःखाः ॥ ८८ ॥

त्वमग्रणीर्दाशरथे धनुर्भृतां
तवानुजस्यापि समो न लक्ष्यते ।
प्ल​वङ्गमानामधिपस्य​ कोठिशः
सन्तीह मां मुञ्च इति ब्रुवन्तः ॥ ८९ ॥

सहायसम्पत्तिरियं तवास्ति
हितोपदेष्टाप्यहमस्मि कश्चित् ।
वारांनिधिः किं कुरुते तवायं
स्मराधुना गोप्पदमात्रमेनम् ॥ ९० ॥

Sankara-18A