पृष्ठम्:शङ्करविजयः.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
95
सप्तमस्सर्गः


अपसरत सुदूरं दूतका नात्र कार्यं
पृथुतरद्दढनुष्टया ताडनं वः प्रदद्मः ।
सरसिजनयनो न३शासिता शास्ति कालं
वयमिह भवतां नो कारकाः शासनस्य ॥ १११ ॥

व्यापद्गतोऽयं बहुकण्टकायां
क्षितौ न हीनो बहुपातकश्च ।
मुच्कैनमस्मात्प्रभवो न गन्तुं
क्रुध्येद्यमोऽस्मभ्यमनिन्दितात्मा ।। ११२ ।।

1निर्वाणकाले शिवनामकीर्तनं
नारायणस्य स्मरणञ्च नाद्य ।
निर्याति पापाधमपूरुषोऽयं
तस्मात्कथं संयमिनीं न पश्येत् ॥ ११३ ।।

अन्तस्सन्धौ तनुविगलने निर्वृतिः प्राप्यतेऽद्धा
काश्यां कश्चिन्नर इह तनुं त्यक्तवांश्चैत्स किं न ।
2मुक्तो मुक्तेस्समय इव वा क्षेत्रभावस्तयोस्यात्
काशीकाञ्च्योरिह मृतहृतौ योग्यता वो न कावित् ॥ ११४ ॥

सत्यं मुक्तिर्भवति न चिरात्तारकब्रह्मदेशात्
काश्यां पुंसस्समतनुलतां वैधवीं बिभ्रते च ।
तद्वन्मुक्तिप्रसरणगतिर्नास्ति चेदाप्तवाक्यात्
कस्मात्साम्यं वदत युगले नास्ति तस्माद्धरामः ॥ ११५ ॥

सत्यं विशेषोऽत्र विनोपदेशशं
प्रपद्यते ब्रह्मपदं पुमान्यत् ।
काञ्ची महिम्नैव ददाति मुक्तिं
मृताय सम्पत्तियुतं तदन्यत् ॥ ११६ ॥


1. अ। णानु । 2. अ मुक्तौ मुक्ते सम इव वरक्षेत्र । 3. का वरदयुगले ।