पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CAMuvindhy intel imeastmeteranaaungaamaashaadhy majuiwr orning व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। ५३ समयस्मृति सङ्केतस्मरणम् । असिद्धमेकत्वमिति । ततश्च नायं तन्त्रादविषयः । सत्वम् एकत्वम् । अव्ययानव्ययात्मकमिति । अव्ययमिवादि । अनव्यय सदृशादि । ध. मार्थस्येति । श्लेषादभिन्नत्वमिति योज्यम् । प्रकटेति । कुलयश्चटका. तदुक्तम्- 'कुलिः कालेङ्गश्चटक' इति । ते च ते शकुन्ता. शकुनय. तेषा चक्रेण समूहेन भास्वतीना वलीनई हिता. अनुरूपा मत्तवारणा अङ्क चिह्न यस्या । निशान्तोऽन्त.पुरम् । विडम्बयन्ती उपहसन्ती । समरभूपक्षे कुलिश वज्र । कुन्ता प्रासा । चक्राणि अरीणि । तैर्भास्वद्भि । व्यतिरेको विडम्बय. न्तीति प्रकाशितः । प्रकटेत्यादौ च विशेषणभागेऽत्रलेष । उषसीति । अन्धकार एव मलिन- त्वात् पङ्कः । तस्य विगलितस्य (प्लवमवस्थान ?) तेन शबल विचित्रम् । घनवम वियत् । दरमत्यर्थम् । मधुर सुकुमारो यस्तरणितापो रविप्रभा तद्योगेन तार हृद्यम् । मधुपायिनो भ्रम- रास्तेषा पङ्क्तिः । अन्धकारपङ्कप्लव एव विगलनेन निस्सारत्वाच्छव तस्य लवनेन वमसु (पक्षेषु?) दूरमा अरमणीयश्री. । मधुरता मकरन्दासक्ता तथा रणिता सशब्दा, यद्वा मधुर- तेन मकरन्दासङ्गेन रणितं गुञ्जितं यस्या । पयोगता जलगता । अरमत्यर्थम् । अत्र घनवमंश- ब्दस्योपमेयवाचिन श्लेषेऽन्तर्भावात् धर्मिधर्मोभयार्थस्योदाहरणत्वे न्याय्ये धर्मार्थस्योदाहरणत्व चिन्त्यम् । [९०] अनवरतेति । अनवरत नयनसलिलेन सिच्यमानो वृद्धि नीयमानः । तथा अनवरतं नयन प्रापण यस्य तेन सलिलेन सिच्यमान आर्द्रत्व प्राप्यमाण । विपदो लव सूक्ष्म- भागो विपल्लवो विगतकिसलयश्च । प्ररोहति विस्तीर्णीभवति अड्कुराश्च मुञ्चति (धर्माश्च मुञ्चति?) धर्मार्थत्वमिति । (किल') अत्र स्थितमपि धर्मार्थत्व नोपमानविशेषणत्वायाल विशेषणत्वस्य कक्ष्यान्तरभावित्वात् । न चावृत्तिमन्तरेण कक्ष्यान्तरपरिग्रहो न्याय्य । नचात्रावृत्ति कार्या। प्रमा- णाभावात् । अनावृत्तौ तु तस्यामेव कक्ष्याया विशेषणत्वे उपमेयस्वरूपापहारप्रसङ्ग इति पदार्थः । तस्योपमेयेति तच्छब्देन विपल्लवशब्द परामृष्ट । यः पुनरिति श्लेषप्रयोजक शब्दः । अप्रधानं विशेषणभूतम् । प्रधानस्य हि पूर्वोक्तन्यायेनावृत्तिाय्या । निबन्धनमिवादि । सानु पर्वतस्य मा(लभूभागः । अकोल्लाख्यास्तरव. तेषां पल्लवा भास्वन्तो यत्र । अकोल्लशब्दः प्राकृतभाषापदमपि कविभिरतिप्रसिद्ध्या श्लेषादिषु प्रयुज्यते । तथा च 'सकुशाङ्कोल्लपल्लवा । मैथिलीव श्रिय धत्ते' इति परिमलेन प्रयुक्तम् । सस्कृते पुनरकोठशब्दः स्थित । तथा भास्वा- नके उल्लपन् मुखर. लवाख्यः पुत्रो यत्रेति सामान्येनान्यपदार्थों गृह्यते । इहेति विपल्लवशब्दे । वाद्यव्ययमिति । तरुरिवेति प्रयुक्तस्येवशब्दस्यान्यथा व्यवस्थापयिष्यमाणत्वात् । अलड्डा. रान्तरं समासोक्त्यादि । प्रधानार्थसंस्पर्शमात्रादिति । यतः तेन पदेन सम्भवदप्रधानार्थे- नापि प्रधानभूतोऽर्थ सस्पृष्टः, ततोऽन्तरसम्बन्धासहिष्णुत्वात् द्विरुपादानाईत्वम् । यत्र च प्रधा- नाप्रधानोभयार्थस्य द्विरुपादानमवश्यं कार्य, तत्र दण्डापूपिकया तदेकार्थस्य प्रधानमात्रार्थस्य शब्दस्य द्विरुपादानं न्यायसिद्धमेव । रुचिर्दाप्तिः अभिलाषश्च रुचिः । अत्र द्वौ रुचिशब्दौ विशे- ध्यवाचित्वात् प्रधानार्थौ । ननूपमानस्य यदि विशेष्यत्व नोपमेयविशेषणत्व तत् कथमुपमेयसम्ब- निधन्युपमानस्य विभक्तिः यथा 'वागर्थाविव सम्पृक्तौ' इति । नैष दोष । विशेषणत्वमवच्छेदक- त्वं तच्चोपमानस्योपमेयं प्रत्युपमितिक्रियाया विद्यत एव । अन्यथा तयो सम्बन्धाभावादनन्वयप्र- "लवोऽनवस्थानम्' इति स्यात् 'पक्ष्मसु' इति स्यात् । 'हक्छब्दो वर्मवर्मनी' इति यादवः.