पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Canavindhy in MALAnnieistan ammpramanalistihy materiorains व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। इति । तदनुसारेणेन्दूदयेन सदृश इन्दूदयसन्निभ इति व्याख्येयम् । तदुक्त्यैवेति अवहितत्वो- त्येत्यर्थ । मूढचेतन इति [८०] मूढधिय इति च मोहनाम्नो मूढत्वस्य बुद्धिधर्मत्वात् चेतनधीशब्दयोः पौनरुक्क्यम् । तत्सम्बन्धात् तदद्वगतिरिति चेतनसम्बन्धाच्चैतन्यावग- गतिरित्यर्थ । कृपामृदुरिति । कृपा चेतनधर्म इति चैतन्यवाचिपद न कृतम् । एव 'मूढा.' 'मूढः' इत्यत्रापि वाच्यम् । उदितवपुषीति पौनरुक्त्यमेवानुसन्धत्ते । (मन कर्तृकत्व प्रमो- व) क्रियाकरणशब्दयोरिति अत्र गौ शाबलेय इतिवच्छोकक्रियाशब्दयोस्सामान्यविशेष- भावेन प्रयोगः । करणशब्देन च स्वीकाररूपमनुष्ठानमभिधीयत इत्यभिप्रायेण कविना क्रियाकर- णशब्दौ प्रयुक्तौ । प्रन्थकृतस्तु विशेषस्यैवोपयोगात् सामान्याव्यभिचाराच क्रियाशब्दस्य वैय- यम् करणशब्दस्य क्रियावाचित्वानिष्फलत्वमिति शोकशब्द एव कर्तव्य इत्यभिप्रायः । अनु. भवविशेषात्मत्वोपगम इति सौगतप्रक्रिययैतदुकम् । वैशेषिकास्तु जढमेवात्मगुणम् एका- समवायिना ज्ञानेन ग्राह्य सुखमाहु । तत्प्रक्रियाया कर्तव्यमेवानुभवग्रहणम् । [८१] एकस्येति सागरस्य । इतरस्य चेति उत्तारार्थस्य । तद्पतावगतोरत्युभयत्र योजनीयम् । तद्रूपता सागररूपता उत्ताररूपता च । सप्तानामिति शीथुमदविवशेत्येव वाच्यम् । मदिराद्रवेति । अत्र समाभातीत्येक पद गणितम् उपसर्गाणां द्योत्यपारतन्त्र्येण पृथक्पदाईत्वाभावात् । एकादि- प्रयोगे सतीति एकस्य प्रयोगाभ्युपगमेऽन्येषामेव तत्त्वम् । तत्राप्येकत्वमनियतम् । एव द्वयो- नयाणामित्यादियोजना कार्या, तत्राप्यनियतत्वेन प्रकारबहुत्वात् । [८२] अविवेकप्रयु. क्तमिति । यद्यप्यविमृश्यकारित्वस्यैवापत्करणत्व, तथाप्यविवेकस्याविमृश्यकारित्वप्रयोजकत्वात् तस्य कारणत्वेऽप्यविमश्यकारित्वमेव कारणमुक्त भवति । न हीति यस्मिन् सति 'वहौ धूम' इत्यादिके प्रतिबन्धका(ल)भाविन्यन्वये सति विशेषणस्य यस्य 'असति वह्नौन धूम' इत्यादिव्यति- रेकस्य गति प्रतीति , तस्यान्वयस्य स एव व्यतिरेको हेतुर्युक्त व्यवस्थितस्य हेतुहेतुमद्भावस्य वैपरीत्यप्रसङ्गात् । अन्वयप्रतीतिहेतुको हि व्यतिरेकप्रतीत्युपक्रमो न तु विपर्यय । विशेषणाचेति गुग्गलुब्धा इति साधारणत्वादित्यर्थ । [८३] सामयति । द्विविध पौनरुक्त्यमर्थगत शब्दगत चेति । तत्रार्थस्य सामर्थ्यसिद्धत्वेऽर्थगतं गौणम् आमुखे पौनरुक्त्यानवभासात् । शब्दगतमासुखा- वभासमानत्वाद् मुख्यम् । प्रकृतिप्रत्ययार्थस्येति प्रकृत्यर्थः प्रत्ययार्थ प्रकृतिप्रत्ययसमुदायार्थ इति व्यस्तसमस्तत्वेन योज्यम् । एव प्रकृतेः प्रत्ययस्य चेत्यत्रापि वाच्यम् । अन्यथा प्राङ् निर्दिष्टस्य पञ्चविधस्य पौनरुक्त्यस्याखड्ग्रहः स्यात् । विहितस्येति। वस्तुवृत्त्या स्थितस्य बहुव्री- हेर्या कर्मधारयशका तया मत्वर्थीयादि. शब्दः कृतो बिसकिसलयच्छेदपाथेयवन्त इत्यादौ । तस्य स्फुटं पौनरुक्त्य वृत्तिद्वयस्य गौरवात् । यस्मिन्निति 'जाम्बवपल्लवा(दौ १)नी'त्यादौ यस्मिन् पल्लव- शब्द इत्यर्थ । (अर्थ) (यत्र + त्यलक्षणो) यत्तद्धितोत्पत्ति यस्मादण्प्रत्ययाख्यात् तद्धितादु- त्पत्ति प्रतीतिविषयत्वापत्तिर्यस्यार्थस्य । तदन्तस्तद्धितप्रत्ययान्तो जाम्हवशब्दादि । तेनैव पल्लवशब्देन न समसनीयः, जम्बूपल्लवानीति समासेन गतत्वात् तद्धितर्वैयर्थ्यप्रसङ्गात् । विशे- षणवशादिति । पिनाकपाण्यादिविशेषणमाहात्म्यात् । विशिष्टमुत्कर्षापर्षवन्त संझिनं हरा- दिकं यत्रेच्छेत् न तत्र पौनरुक्त्यम् । अन्यथा तु पौनरुक्त्यम् । यथा 'पायात् स शीतकिरणा- + 'धर्मविशेषाच्च' इत्येव मूलकोशेषु पाठ उपलभ्यते, न तु विशेषणाच्च' इति । तदनुसरणे विशेषाञ्च' इति प्रतीकं धर्तुमुचितम् .