पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । था कृतेत्यनेन भङ्गयन्तरेण राहोः शिरश्छेद प्रकाशित इति तत्साधनमसाधारणं चक्र प्रतीयत एवेत्यर्थ । [] पदादीति पदादिगतानामक्षराणामनुप्रासो गुम्फमङ्गों दर्शयन् कवीनामत्यन्त- वल्लभ इत्यर्थ. । कलभाषिणीति । अत्र कमलेक्षणे इत्यर्थानुगुण पाठ । अन्यथानुप्रासहेवा- कितैव स्यात् । शत्रुरेव शात्रव इति प्रज्ञादित्वात् स्वार्थेऽण् । तद्पणमेवेति उपमापेक्षया रूप- कस्य गम्यमानौपम्यत्वाद् प्रयोगाईत्वेऽपि सामर्थ्यावगतरूपत्वाद् यत्राभिधान पुनरुक्त तत्रोपमायां (*दैवरक्ता किंशुका..) इति । [७८] इवशब्दस्येति मूर्च्छित इव मूर्छयतीत्यर्थप्रतीतेः सिद्ध- स्वात् । विषादिसम्पर्काद्धि मोहं प्राप्तः परानपि मोहयतीति प्रसिद्धम् । अयं मन्दयतिरिति निदर्शनाया ममेवेत्यर्थात् प्रतीत न पुनरुपात्तम् । मुमूछेति प्रससारेत्यर्थः । बाधकसद्भा- वाभाव इति । अनेन यत्रैकस्यैव विशेषणस्योपमानोपमेयसम्बन्धबाधकमस्ति तत्र पुथकप्रदो- गेऽपि न दोष यथा- “चकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि । आवन्त्य एव निपुणाः सुदृशो रतनमणि॥" इत्यादौ प्रतिवस्तूपमायामित्याह । अत्र हीवादिशब्दाभावे सति वाक्यभेद । प्राकरणित्वा- प्राकरणिकत्वाभ्यामुपमानोपमेयभावप्रतीतौ साधारणधर्मस्य पृथक्प्रयोगमन्तरेण वाक्यार्थसङ्गतिर्न भवतीति पृथक्प्रयोगो न दुष्ट । तद्वचनामिति सहजपदेन स्वाभाविकत्ववचनम् । तुल्यवि- भकीनामर्थात् उपमानोपमेयानाम् । एषा निर्धारणे षष्ठी । एतन्मध्ये एकस्येत्यर्थः । पर्या- रिति । स्वाभाविकपदादिषु कृतेषु सहजपदादिभिः । समासान्तर(पद)श्रयणेनेति उमा च मा च (उमामे । तयोः) धवाविल्यादि द्वन्द्वपूर्वकतत्पुरुषाश्रयेणेत्यर्थः । छायानिहतपद्- योरिति प्रथम छायाशब्दः द्वितीयश्च निहतशब्दः कर्तव्यः स्यादिति दार्शन्तिककमेणैव दृष्ट्यन्ता- युक्तौ । अस्त्विति छायानिहतशब्दयोः प्रयोगः । उभयोरपीति । द्वन्द्रपूर्वकस्य बहुव्रीहेर्बहुव्री- हिपूर्वकस्य वा द्वन्द्वस्येत्यर्थः । एतच्च दृष्टान्तगतत्वेनोकमपि दान्तिकगतत्वेनापि पर्यवसान ने- यम् । दार्टीन्तिके हीत्थ योजना । तत्पुरुषपूर्वस्य द्वन्द्वस्य द्वन्द्वपूर्वस्य वा तत्पुरुषस्य लक्षणानुगमः सम्भवतीति । तदर्थत्वादिस्युक्तं विधेयाविमर्शविचारे । यावद्भिरिति पदैरित्यर्थात् । तत्- पुरुषलक्षणाश्रयेणेति प्रकृते द्वन्द्रलक्षणपूर्वकत्व ज्ञेयम् । एव न द्वन्द्वलक्षणमित्यत्र तत्म- रुषलक्षणपूर्वकत्व बोद्धव्यम् । तस्येति द्वन्द्रस्य । अतज्जातीय इति यत्र तत्पुरुषशङ्का नास्तीति पार्वतीपरमेश्वरावित्यत्रापि परमेश्वरपदे कर्मधारयाश्रयणदर्शनेन तत्पुरुषपूर्वकत्व योजनीयम् । अवा- न्तरचिन्तयेति पौनरुत्यप्रस्तावे समासचिन्तयेत्यर्थः । अत्र माधवशब्दस्य यौगिकत्वेऽपि स- ज्ञात्वेन निरूढेरुमामाधवाविति प्रयोगे उमाया माधवस्य च स्पष्टत्वेन प्रतीतिर्न तु द्वन्द्वपूर्वकतत्पु- रुषार्थस्येति इन्द्वलक्षण नातीव हृदयङ्गममित्याहुः । [७९] रेखाहीति रेखा मर्यादा अवधिः सोमति पर्यायाः । तत्र हेयपक्षप्रतिक्षेपण प्रयोगो यथा ससारेति । अत्र ससारसम्मनस्य नि- राकरणमिति हेयस्य प्रतिक्षेपः । उपादेयपरिग्रहो यथा त्वष्टुरिति । अत्र सम्पद प्रसरो वि- स्तार इत्युपादेयस्य परिग्रहः । इन्दूदयस्येव सन्निमा यस्येति अत्र सन्निभाशब्दः प्रमापर्यायो, व्याख्यातः । यथा तु दाण्डो ग्रन्थस्तथा सन्निभशब्दः सदृशपर्यायोऽस्ति तदुक्तम्- “इववद्वायथाशब्दाः समाननिभसनिभाः" ।

  • 'पौनरुक्त्ये का शङ्का' इति युक्तं पठितुम् ।
  • 'दाण्डिन' इति स्यात् । दण्डिनोऽयमिति दण्डिशब्दाच्कैषिको ह्यम् .