पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Luvarinity Tutalimandanteritaniumiinmaniahinindianmil व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। इति । वक्रोक्तिजीवितकृतस्तु तमलङ्कारपृष्ठपातिनमलङ्कार दूषयति । निर्मोकमुक्तिमिवेति अत्रो- पमारूपकत्व परप्रसिद्ध्योक्तम् । न त्विदमुपमारूपकम् । उत्प्रेक्षारूपक तु स्यात् , निर्मोकमुक्तस्स- म्भाव्यमानत्वेन प्रतीते । तथा हि निर्मोकानुगुण्यात् तावद् गगनस्योरगेण रूपणम् । निव्यूढे च रूपके निर्मोकमुक्तिन ताटस्थ्येन प्रतीयते किन्तु गगनोरगसम्बन्धित्वेन । (गगनोरगसम्बन्धित्वेन) च प्रतीतौ न सादृश्यम् अपि त्वध्यवसाय । तस्य च प्रवर्त्तमानत्वमित्युत्प्रेक्षैव ज्यायसी प्रतीतौ। अतश्चैवे(य) (द) मुक्तिपद कृतम् । अन्यथा शुद्धसादृश्यप्रतिपादने धर्येव विशिष्टो निर्मोक उपमा- नत्वेन निर्देश्य स्यात् । भिनलिङ्गयोरुपमाया दुष्टत्वान्न निर्दिष्ट इति चेन । साधारणधर्मस्या- निर्देशे निर्दिष्टस्यापि वा द्वैरूपयाभावे भिन्नलिङ्गसङ्ख्ययोरपि 'स्त्रीव गच्छति षण्डोऽयमित्यादौ 'हन्तावहन्ति दोषा इव नृपतीना गुण इह(सहैव ?)दुर्विनयम्' इत्यादौ चोपमानोपमेयभावस्येष्ट- त्वात् । तस्मादुपमाया निर्मोक इवेति स्यात् । उत्प्रेक्षाया क्रियानानोत्प्रेक्षणमुपपद्यत इत्युत्प्रेक्षा- रूपकर्मतत्परमार्थत । एतदस्माभिहर्षचरितवार्तिके विस्तृत्य प्रतिपादित तत एवावसेयम् । एव परशुरिवत्यादौ वाच्यम् । 'तमोरण्यवह्नरिवार्चि'रिति । अत्र तमसोऽरण्येन रूपणे वह्निरर्चि- स्सम्बन्धितया विवक्षित (ममासे न निवेशनीय कश्चिदत्र निर्दिष्टो) यो वह्निना रूप्येत । तस्मात् तमोरण्यस्य वयचिरिति वक्तव्यम् इत्यत्र वाच्यावचन दोष । आलानमिति सत्येव सादृश्ये आरोप्यारोपकभावस्य निदर्शनम् । [७३] चुम्बतीवेति । अत्रोत्प्रेक्षार्थे प्रयुक्तस्येवशब्दस्य लक्ष- पासमर्थितेनार्थेन कृतार्थत्वात् पुनरुतत्वम् ।। अ(त्र)चोपमारूपकाभिमते एवविधे च प्रदेशे ग्रन्थकारो हेवाकितयैव दूषणमदात् । तथा च शब्दार्थयोर्विच्छित्तिरलङ्कारः । विच्छित्तिश्च कविप्रतिभोल्लासरूपत्वात् कविप्रतिभोल्लासस्य चान- त्यादनन्तत्व भजमाना नं परिच्छेत्तु शक्यते । अत एवोक्तं ध्वनिकृता- “वाचस्पतिसहस्राणा सहस्रैरपि यत्नतः। निबद्धा सा क्षय नैति प्रकृतिर्जगतामिव" ॥ इति । अन्यत्राप्युक्तम्- 'अज्जवि अभिण्णमुद्दो पजअइ वाआपरिप्फन्दो' इति । एवञ्च यदि विच्छिन्त्यन्तरापेक्षया तस्य विच्छित्त्यन्तरस्य पौनरुक्त्य तदोषमाया रूपकाच- पेक्षया पौनरुक्त्य स्यात् । उपमापेक्षया हि रूपकमतिशयोक्तिर्वा बलीयसी । न चैव प्रयुज्यते, विवक्षाया नानात्वात् । तथा हि क्वचित् सादृश्यमात्र विवक्षितम् । तत्रापि कचिदभेद । तस्मि- नापि क्वचिदारोप. । कचिदध्यवसाय । (अभ्यवसायेऽपि) कचित् साध्यत्व क्वचित सिद्धत्वमि- त्यादिक्रमेणानन्तप्रकार विच्छित्तिवैचित्र्यम् । तत्रापि सयोजनक्रमेण नव विच्छित्तिवैचित्र्यमनुभू- यमानमाश्रित च महाकविभि कथ सक्षेपरुचित्वेनापह्वयते । न हीद वाक्य लक्षणशास्त्र, येन मा. त्रालाघवं चिन्त्यते । तत्रापि वा न नियमेन लाघवमाश्रित महद्भिः । तथा हि वाहणस्य स्था- नेऽन्यतरस्या ग्रहणमपि कृतम् । विच्छित्तिवैचित्र्य तैरप्याश्रितमेव । तदुक्त 'विचित्रा हि सूत्रस्थ ऋति. पाणिनेः' इति । एवञ्चात्र कृतेऽपि रूपके उत्प्रेक्षादिनिबन्धः कमपि गुणमुत्कर्षयति न दो- पमिति सहृदयनिपुणं निरूपणीयम् । नतु हेबाकस्य पश्चालगनीयमित्यास्ता तावत् । प्रकृतमनु- सरामः॥ मुर्मुरः अङ्गारः । आम्रवणस्येति 'प्रनिरन्त' (८. ४ ५) रिति णत्वम् । पथिक- ६ *समासे निवेशनीयः, यतो न कश्चिदत्र निर्दिष्टः' इति पाठः संगतः स्यात् .