पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। अय भाव.-- इत्यादिशब्दवर्जनेनोक्तक्रमेण शब्दहेत्वादिवर्जनेन चान्येषां शब्दानामय न्याय । इत्यादीनामय पुनर्नियतप्रयोगविषय इति । नान्यथा तेषा प्रयोगः कर्तव्य इति ।। एवमुद्देशक्रमेण क्रमभेद विमृश्य पौनरुत्य विचारयितुमाह पौनरुक्त्यमिति । इह खलु द्विविध पौनरुक्त्य शब्दपौनरुक्त्यमर्थपौनरुत्य चेति । तदुक्तमक्षपादमुनिना- "शब्दार्ययो पुन- वचन पुनरुक्तमन्यत्रानुवादाद्" इति । तत्र शब्दपौनरुक्त्यमापौनरुक्तये न दोष , अर्थपौनरू- तयन दुष्ठत्वे अर्थस्यैव प्रयोजकत्वात् । अर्थपौनरुक्त्यमेवैक पौनरुत्त्य न शब्दपौनरुक्त्यमिति स- मुदायार्थ । आर्थमिति अर्धाश्रितम् । एव शाब्दमित्यत्रापि वाच्यम् । यदुक्तमिति वाद- न्याये । हसतीति एको हसतिशब्दः शत्रन्तः स्वामिविशेषणम् , अपर क्रियापदम् । एवमुत्त- रत्र वाच्यम् । यन्त्रमिति । अभेदोपचारेण मृत्यस्य निर्देशः कृतानुकारित्वात् । अन्यत्र ता- त्पर्यभेदादिति तात्पर्यभेदे हि स्वरूपाविशेषे लाटानुप्रास इष्ट । तदुक्त- "स्वरूपाविशेषे हि पुनरुक्ति फलान्तरात। शब्दाना वा पदाना वा लाटानुप्रास इष्यते ॥" इति । शक्रसङ्काशेति श्रीनदीसेति मेदिनीचन्द्रेति विद्विषां कालेति च चत्वार्याम न्त्रणाणि । अत्र तात्पर्यभेद स्फुट एव । तथा चैक काशशब्दो वस्त्राणामुपमेयत्वेन स्थित., अ न्यस्तु हसानामुपमानत्वेनेति भिन्न तात्पर्यम् । एवमन्यदपि योजनीयम् । उभयाभावे इति अर्थभेदस्य तात्पर्यभेदस्य चाभाव इत्यर्थः । न च घासेति कर्मत्वेन सम्बन्धित्वेन चास्तु ता त्पर्यभेद इत्यर्थः । एतन्न चेति निषिध्यते । स्वार्थमिति । एतदुक्क भवति--- न स्वार्थाभिधा- नमेव तात्पर्यम् अपि तु सत्येव स्वार्थाभिवानेऽधिकमर्थान्तरोन्नुखत्व तात्पर्य, यथा काशश- ब्दयोः । तत्र काशजात्यवच्छिन्नद्रव्यप्रतिपादनादतिरिक्त उपमानोपमेयभावः प्रतिपाद्यते । न चैव- बिसशब्दयोः । नपत्र बिसजात्यवच्छिन्नद्रव्यातिरिक्त किञ्चिद्वस्तु प्रतीयते । यत्तु कर्मत्व सम्ब- न्धित्व च तदभिवेयस्यैव तथावस्थानं नोटेकेणान्यतामावहतीति स्वशब्दपरिहारेण सर्वनामपराम- शत्यैव विषयो न्याय्य इति । ननु पुनरुक्त किमुच्यते यत्र तत्प्रयोग विनार्थप्रतीति यत्र चं तत्समानपदान्तरप्रयोगोऽवश्यमुपयुज्यते, तत्र कथ पुनरुक्तत्वम् । यत्रैकार्थेन प्रतीतिर्न तात्पय- भेद , तत्र पुनरुक्तत्व प्रतीतिवरस्यापादानात् । (यत्र तु तत्स्थानेन ? ) पदान्तरमुपयुज्यता मा वा । सर्वथा तत्प्रयोगकृत वैरस्य पौनरुक्त्यप्रयोजकमिति तदाश्रयेणाय दोष उक्त । ७०] सर्वनामेति 'जक्षुर्विसमि'त्यत्र निर्दिष्ट बिसमुत्तरत्र प्रसूनसम्बन्धित्वेन सर्वनाम- परामर्शार्ह सद्यत् स्वशब्देनोक्त, तत् शब्दपुनरुक्तम् । यद्यप्यर्थपुनरुक्तमेवैक पुनरुक्तं (*प्रयुक्त, तत् ?) तथापि शब्दस्य पुनरुक्ततेत्युक्तम् अर्थमुखेनैव शब्दस्यापि पृनरुक्ततेत्यभिप्रायेण । 'सर्व- नामपरामर्शयोग्यस्येति निर्दिष्टा योग्यता विभक्तुमाह प्राधान्यमिति । द्विविध परामर्शयोग्य- त्व शाब्दमार्थ चेति । तत्र यस्मिन् परामृश्यस्य स्वातन्त्र्येण कर्तृत्वादिना निर्देशेन प्राधान्य तत्र शाब्दम् । यत्र पुन, परामृश्यस्यान्यः कश्चित् सम्बन्धित्वेन निर्दिश्यते तत्रार्थम् । तत्र हि सम्ब- न्धिन प्रति अस्योपयोग एव योग्यत्वम् । तथा चैकमुदाहृतम् । सम्बन्धिप्रतीतिमुखेनेति । अत्र सम्बन्धी हरः तस्य मौलिद्वारेण शशाङ्कसम्बन्धित्वात् । तत्प्रतीतिमुखेन चात्र शशाङ्कः प्र- तीयते न तु 'चारुता वपुरि' यादौ चारुतादेरिव साक्षादेव शशाकस्य प्रतीति. । शशाङ्कसम्ब- + 'तत्र तु तत्समान' इति पठितव्य स्यात् . * 'प्रागुक्त' इति स्थात् .