पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CRIMinihy intuismeyinmeterstinumps amarelinthy imminentaries व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । ३७ "यद्वत् तद्वदलङ्कारै समानैर्निजात्मना । स्वशोभातिशयान्तस्थमलङ्कार्य प्रकाश्यते ॥" इति । अप्राधान्यं स्यादात । अथ भाव -यदि शब्दव्यापारविषयस्य प्राधान्यमर्थव्यापारवि- षयस्य चाप्रावान्यमिति व्यवस्था, तदा त्रिविवस्य प्रतीयमानस्य परैर्ध्वन्यत्वेन व्यप(निर्दि )दि- टस्यास्माभिरनुमेयत्वेनोपपादितस्याप्रावान्य प्रसज्येत तस्यार्थव्यापारविषयत्वात् , शब्दव्यापार- विषयत्वस्य दूषितत्वात् । इष्यते च प्राधान्यम् । तत् कथमिय प्राधान्याप्राधान्यप्रतीतिर्घटत इति । 'चक्राभिवाते'त्यादौ च पर्यायोक्ते समासोक्तिवद् गम्यमानस्यैव प्राधान्य न वाच्यस्येत्यु- पपादित प्राक् । 'एकाभिघात' इति हयग्रीवदधे पाठः स्थितः, सुदर्शनस्य पुल्लिङ्गस्य प्रक्रान्तत्वाद् य इत्यनेन परामर्शात् । तत्त्वनवबुध्य चक यदि परामृश्यते, तदा यच्छब्दस्य नपुसकता स्यात् । तन्मुरारिरेवान परामृश्यत इत्याशयेन 'चक्राभिघाते'ति पठन्ति । न त्वय तत्र प्रस्ताव । (तदपेक्ष- यैव १) प्राधान्यमप्राधान्यं चेति इह गमकमप्रधानमुपायत्वात् । गम्य प्रधानमुपेयत्वात् । तेन प्रतीयमानस्य गम्यत्वात् प्राधान्यव्यवहार ।न प्रतीत्यपेक्षयेति । शब्देनार्थेन च या प्रतीतिस्तद- पेक्षया न प्राधान्याप्राधान्यव्यवहार इत्यर्थः । तथाम्लिह गम्यगमकभावविविक्तविषयत्वेन चिन्ता कृता। तदपेक्षयैव चेति । वाच्यस्यापि य शाब्दत्वेन प्राधान्यव्यवहारयोगस्तस्यापि । तद- पेक्षया गम्यगमकत्वापेक्षया । क्वचिद् यत्र प्रतीयमानसद्भावस्तत्राप्राधान्यमित्यर्थ । वाच्य हि प्रतीयमान प्रति गमकत्वेन व्यवस्थित तेन तदपेक्षत्वेनाप्राधान्यमिति तात्पर्यम् । विचित्रा भङ्गिणितय इति यथा भट्टबाणस्य तेषु तेषु स्थानेषु । अभिभूयमानत्वादिति । यदुक्तं म्वनिकृता- __'अव्युत्पत्तिकृतो दोषः शक्त्या सत्रियते करेः' इति । वाक्यभेदाचेति वाक्यान्तरापेक्षया ९ि वाक्यान्नरस्य भनिभणितिवैचित्र्यमित्यशेन प्रती- तिवैदूर्यान्न प्रक्रमभेददोष प्रकाशयति । [६५] न्यायसिद्धनादिति । न्यायोऽत्र भणितिवैष- म्यम् । कारणभेदस्यापीति न केवल प्रतीतिभेदो भेदहेतु , यावत्कारणभेदोऽपि । प्रतीतिभेदो विज्ञप्त्यपेक्षया भेदहेतु., कारणभेद पुनरुत्पत्त्यपेक्षयेति विशेषः । तदुक्तम् -- “अयमेव भेदो भेदहेतुर्वा भावाना योऽय विरुद्धधर्मा यासः कारणभेदश्च" इति । इह भाशिभणितिवैचित्र्यावैचित्र्ये प्रतीतिपरिस्खलनास्खलनयो कारणे । सचेति प्रक्रम- भेद । शाब्दश्चार्थश्चेति पूर्व प्रकृत्यादिप्रक्रमभेदविलक्षणौ शाब्दार्थप्रक्रमभेदौ लळितावुदाहृतौ च । अधुना वाच्यप्रतीयमानार्थापेक्षया पर्यवसानाभिप्रायेण सर्वप्रक्रमभेदव्यापको सामान्येन शाब्दा- थप्रक्रमभेदावुक्ताविति विशेषो बोद्धव्य । वस्तुप्रक्रमभेद इति । वस्तु वर्णनीय यथा वर्णयितु प्रक्रान्त तस्य तथा निर्वाहाभावाद् वस्तप्रक्रमभेदः । भेदेनेति अवयवसम्बन्धित्वेनेत्यर्थ. । प्र- थमे हि पादे अवयविन एव स्वरूपेण वर्णन प्रक्रान्तमित्यवयविसम्बन्वित्वेन निर्वाहण दोषः। उभयत्रापीति अवयविवर्णने अवयववर्णने च। तत् स्वरूपं नायिकास्वरूपम् । अङ्गने इत्या- मन्त्रणम् । पततु अधस्ताः गच्छतु । सादृश्यप्रतिपादनेति द्विचन्द्रमिति वि पाठे वदनेन सह चन्द्रो नभसो द्विचन्द्रतामापादयति । तच्छ वदनचन्द्रयोः सादृश्यमूलमिति व्यतिरेकप्रक्रमे सादृश्यनिर्वाहात् प्रक्रमभेदः । वस्तुसर्गपोनरुक्त्यस्योते पुनरुक्तवस्तविरस इत्यत्र हि पुनरु- कवस्तुभिर्विरस इति व्याख्याने सादृश्येन निर्वाह कृतः । व्यतिरेकेण च प्रक्रम इति दोष एवायम् । + 'विचित्रार्थ' इति कसज्ञमूलकोशे पाठः. $ 'प्राधान्य न स्याद्' इत्यव तु मूलकोशेषु पाठो दृश्यते ।