पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Laminatainmentumaratungamadarasitenden व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। इत्यत्र चवाशब्दद्वयं प्रत्युक्त, चवाशब्दार्थयोरेकत्र विरोधात् । खण्डिकेति खण्डो ग्रन्थसम्बन्धी जतु समस्तो ग्रन्थः । स विद्यते येषाम् । अनवगततदभिप्रायैरिति समर्थग्रहणं प्रत्याचार्यस्य हि तैरभिप्रायो नावगत. । अभिधानाधानोद्धारति । अभिधानाना शब्दानामाधानमभिनवानां न्यसनम् । उद्धार पूर्वकाणामुद्धरणम् । शालीना अवृष्टा अविचारका इत्यर्थ । अपरमपीति पु- नरुक्तादिकम् । तश्चिन्तेति । प्राधान्येतरभावेन समासासमासचिन्ता। [५६] प्रकरणेति । यत्रार्थ- प्रकरणादिना शब्दभ्य वाच्योऽर्थ प्रकर्षाप्रकर्षादिकमान्तर प्रकाशयति, तत्राभिप्रेतार्थविनाशभ- यात् समासो न कर्त्तव्य.। यथा 'रामस्य पाणिरसी'ति । प्रकरणशब्दादिसख इति पाठे 'शब्दस्यान्यस्य सनिधिरिति स्वीकृतम् । यदा प्रकरणकाक्वादिसख इति पाठ , तदा काकुग्रहणेन स्वरविशेष उच्यते य 'कालो व्यक्तिस्त्ररादय' इति काव्यगतत्वेन स्वीकृत । एव प्रसकानुप्रसक्तिकया समासगतत्वेन तदतिदेशेन समग्र(प्र)वृत्तिगतत्वेनापि गुणप्रधानभावविवक्षा महता प्रपञ्चेन परिघटय्य प्रकृतोदारणे षष्ठीतत्पुरुषगतत्वेन योजयितुमाह इत्थमवस्थित इति । अम्बिकाया उपादानमिति सम्बन्ध । तत् किमिति । विशेषणस्यान्यकेसरिव्यावृत्तिा, केसरिगतप्रकर्ष- प्रतिपादन वा फलम् । आये पक्षे निर्दिष्टचमत्कारसम्भावना । द्वितीये तु समासानुपपत्तिरिति तात्पर्यम् । विवक्षितपद चमत्कारातिशयपदेन योजनीयम् । तस्या इत्यम्बिकायास्सकाशात् । जात्यन्तरं विशिष्टावान्तरकेसरिजाति । तयावच्छिन्नो विशिष्ट । विशिष्ट एवेति लोकोत्तर ! मोहन्त्विति हरेविहङ्गमो गरुड । मोहमज्ञान हन्त्वित्यर्थ । गरुडजात्यवाच्छन्न इति । सौगतदृशा गरुडाना बहुत्वादिति भाव । विहङ्गमविशेषत्व तु जात्यादिवलक्षण्यात् । स्वाभिप्रा. याविष्करणमिति । सादृश्यमूलयाप्रस्तुतप्रशसयेति भाव । तस्याश्चेति तच्छब्देन सरस्वती परामृष्टा । सरस्वत्या अम्बिका प्रतिबिम्बम् आत्मनश्च केसरीत्यर्थः । द्वितीयपक्ष इति । केसरिगतप्रकर्षप्रतिपादनपक्षे । [५७] समासादसाविति अम्बिकाकेसरिशब्दाद् उन्मिषत्येव स चमत्कार इत्यर्थः । उदयास्तमयेति । वृत्तौ चमत्कारस्या तिशयो, वाक्ये उदय इति * चूलिकाक्रमेण योग.। उपदर्शितमेव प्रागिति उदाहरणप्रत्युदाहरणप्रदर्शनद्वारेण । इष्टं हीति अभिप्रेतस्याप्राप्तिा, सा चोदनाही इष्टमेतन सिध्यतीति । यत्तु नाभिप्रेत तस्याप्राप्तिर्भूषण न तु दूषणमित्यर्थः । अस्माभिरसाविति असी चमत्कार. ! सा भ्रान्तिरेवेति निर्विकल्पविकल्पभेदेन द्विविधा भ्रान्ति । तत्राद्या तिमिराद्युपप्लुतेन्द्रियस्य द्विचन्द्रादिप्रतीतिरूपा । द्वितीया त्वभिमानरूपा शुक्तिर- जतादिप्रतीतिस्वरूपा । सेति चमत्कारावगतिः । व्याख्यावाक्यादेवेति अम्बिकायाः केस- रीति समासविवरणवाक्यात् । तेषामिति प्रतीतिवैचित्र्यानभ्युपगमवादिनाम् । तत्रारोपिते- ति तत्र समासे शुक्तिस्थानीये रजतमिवारोपितावास्तवीत्यर्थ । उदयास्तमयपक्षौ क्रमाद् वाक्य. समासगतौ । उद्योग इति । सरम्भपद निरस्योद्योगपदकरण प्रक्रम्यमाणोयुक्तवत्पदक्रमाभेदाय । योऽसावित्यदःशब्दः प्रसिद्धिपरामर्शकः यच्छब्दप्रातिनिर्देशस्य तच्छब्देन करिष्यमाणत्वात् । प्रतिपादितेति । आर्थो हि केवलतच्छब्दस्य प्रयोगनिबन्धन उपक्रमोपसहारक्रम. प्रतिपादित

  • 'अतिशय इत्यस्य स्थाने 'अस्तमय' इति पाठय स्यात् .
  • चूलिकाक्रमेण पूर्वसूचनक्रमेण योगः, न तु निर्देशकमेणेत्यर्थः.