पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CamerierToui imuye Curverter - few rumantritynatanawRIOR व्यक्तिविवेकव्याल्याने द्वितीयो विमर्शः। पूर्व पठित सामञ्जस्य भजते, प्रत्युदाहरण चेति उदाहरणग्रन्थ समन्जस एव स्यात् । दृश्यते च पुस्तकेष्वेव पाठ । तस्मादत्र जागरणीयम् । कारणमत्र पराशरो जमदग्निश्च । तदभावे हेत- रिति तच्छब्देन समास परामृष्ट । ततश्चात्र पाराशर्यादिपद व्यासादाबुत्कर्षमर्पयत् पुनरुक्तम् । तक्षकसर्प इति तक्षकशब्देनैवात्र सर्पविशेषत्वात् सर्पत्वे प्रतीते सर्पपदमुत्कर्षसमर्पणप्रवणमेवेति तदर्थस्य विधेयत्वम् । [४६] लोहितस्तक्षक इति यथा तक्षकशब्दादेव सर्पत्वजाति प्रतीता तद्वलोहितलक्षणो गुणोऽपि तत एवाव्यभिचारात् प्रतीत । ततस्तौ जातिगुणौ विधेयताभिप्राये- णोक्ती न समास न्यग्भावनीयौ । उक्तन्यायादिति विधेयत्वान्न समास. प्रवर्तत इलार्थ । पक्षो न चास्त्यन्यस्तदत्यये इति । इह द्वौ पक्षायुलिखितौ तक्षकस्य स्वरूपमात्रप्रतिपादन वा लोहि- ताख्यगुणविधिवी । उभयत्रापि कृता चर्चा । तदत्यये च कथितपक्षद्वयातिक्रमे चान्यस्तृतीय- पक्षो नास्तीत्यर्थ । एचमियता कर्मधारय विचार्य बहुव्रीहिनिरूपणायाह बहुव्रीही यथेति । तत- स्तदिति स्थलीकरणादि यह विशेषणतयोपात्त तत् परामृश्यते । तैर्वियादिभि । तदप्रतीतिः उत्कर्षापकर्षाप्रतीति । प्रतीतिभेदहेतौ समासासमासयोगे। प्रतीतिसामर्थ्य कर्मधारयादिवि- घये । तदसम्भवः प्रतीतिभेदासम्भव । अन्त्यावस्था प्राप्तकारणेषु युक्तैव कार्योत्पत्तिरित्यर्थ । एतदभ्युपगमे दृष्टविरोधमा । एवं हीति । लैव वेति न्यायाविशेषात् । अर्धजरतीयमिति अर्ध जरत्या इति 'समासाच तदविषया' (५-३-१०६) इति च्छप्रत्यय । यथा जरत्या वराङ्ग कामयते मुख न कामयते तद्वदेवेत्यर्थ । [४७] तत्तस्य । इति तदिति तस्मात् । तौ सूर्याच- न्द्रमसौ । तयोरिति अनुवाद्ययोस्सूर्याचन्द्रमसोः । पारम्पयेणेति विधेयतामाह पितामहत्वद्वा- रेण । अत एव सूर्याचन्द्रमसाविति द्वन्दुनिर्देशो द्वयोः स्पर्धिता प्रकाशयति । उर्वश्या च भुवा चेति समासाभावो वरणस्य मुख्यामुख्यत्वप्रदर्शनार्थम् एकस्य वास्तववादपरस्य कविप्रौढोक्तिनि- पादितत्वात् । इह चेति प्रतीतिवाचत्र्य स्पष्टतरमेव धारयतु मतिमानिति पाश्चात्य सन्बन्धनाय जनक इति । अत्र जनकाख्यराजर्षिप्रभृतय. पितृत्वादेरुत्कर्षमर्पयन्ति । एव बहुव्रीहिं विचार्य द्विगु ब्याचष्टे द्विगा यथेति । निरवशेष इति सप्तत्वसङ्ख्यायां विवेयत्वेन सरम्भास्पदत्व समासे तु न्यग्भावात् । दशस्विति दशत्वसयाया विधेयत्व रावणस्य परिभवातिशय प्रकाशयति एकस्मिन्नपि मूर्धनि पदन्यास. परिभवास्पद किं पुनर्दशस्विति। प्रत्यदाहरण सप्ताहयामिह यस्य स इतीत्यादिपाठे। वैशस बाधः । एव द्विगु व्याख्याय नसमास व्याचष्टे नसमासेति । उपदर्शितमिति असरब्धवानित्यत्र विधेयाविमर्शविचारे अनुक- वानिति नोचवा वाच्यम् । तत्पुरुषे कादीनां षण्णा कारकाणा सम्बन्धस्य च क्रमेणो- दाहरणान्याह देशेत्यादिना । सोऽयमिति । अत्र स एवायमिति व्याख्या। अहितसम्बन्धिना शस्त्राणा घस्मराणि प्रसनशीलानि अत एव गुरूणि । करणं प्रतीति क्रिया प्रतीत्यर्थ । तत्त- स्येति प्रक्रान्तत्व विशेष्यस्य करणस्य । तस्येति रामस्य । शौर्य बलम् । निघ्नः परवश । तेन तदिति रामेणेति विशेषणम् । [४८]अनेकेषामिति। अनेकशब्दस्य नसमासे उत्तरपदार्थप्राधान्यादेकवचनप्रसङ्ग । सत्यम् किन्तु नप्रयोगविषये एकशब्दस्यैकव्यतिरिक्तवस्तुविषयत्व यथा अब्राह्मण इत्यत्र ब्राह्मणशब्दस्य क्षत्रियादिगोचरत्वम् । एकव्यतिरिक्त च वस्तु कदाचिदेकत्वोपरक्त प्रतीयते, कदाचिनिजेनैव स्व- रूपण । आये पक्षे अनेकमिति भवति द्वितीये त्वनेकानीति । यथा च (पदमञ्जरिः ?) पतञ्जलि:-

  • "तताऽस्य' इति मूलकोशयो' पाठ . * “पदमञ्जरिः' इत्येतत् पातजले इति स्यात् .