पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ConnurturTourimagarmatrastamperwwwdtymaraJanar २४ व्यक्तिविवेकव्याल्याने द्वितीयो विमर्शः । यच्छब्देन निर्देशे कर्तव्ये निर्धार्यमाणस्यावयवस्य निर्देशो दुष्ट एव । यथा..... "तस्मादजायत मनुर्नवराजबीज यस्यान्वये स सगर. स भगीरथश्च । एकेन येन जलधि. परिखानिनोऽयमन्येन सिद्धसरिता परिपूरितश्च ॥" अत्र स सगरः स भगीरथश्चेति यनिर्दिष्ट तस्येकेल्यादिना निर्धारण विहितम् । निर्धारण च जा- तिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणम् । नचान समुदाय केनचित्पदेन निर्दिष्टः । यच्चै- केनेति निर्दिष्ट तन्न समुदाय , अपि त्वेकदेशः । ततश्च निर्देश्यानिर्देशादनिर्देश्यनिर्देशाचात्र दुष्ट- खम् । एवञ्च समुदायस्यैव निर्धारणविषयस्य यच्छब्देन निर्देशे कर्तव्ये "एको ययोजलनिधीन निचखान सप्त गाझै पयोभिरभिवर्षितवान् द्वितीय.' इति पाठः श्रेयान् । क्वचिद्यत्तच्छब्दावग्रहणेन विध्यनुवादभावेन वाक्यार्थप्रस्तावे यदन्तरान्यथाकरण तत्र दु- टत्व यथा- 'यत् त्वनेत्रसमानकान्ति सलिले मनं तदिन्दीवरम्' इति । अत्र प्रथमतृतीययो पादयोर्यत्तच्छब्दपरिग्रहेण विध्यनुवादभावेनोपनिवन्ध. । द्वितीयपाद- गतत्वेन तदुल्लङ्घन दोषः । इन्दीवराणा राजहसानां च बहुत्वात् सीतासम्बन्धिवस्तूपमितयोरिन्दी- वरराजहसयोावृत्त्यर्थ विध्यनुवादभावपरिग्रहः । चन्द्रस्य त्वेकत्वात् तदकरणमिति केचित् । तदसत् । चन्द्रस्यापि द्वितीयाचन्द्रादिभेदेन बहुत्वसम्भवात् तत्रापि विध्यनुवादभावो युक्तः । इ- न्दीवराणां व्यक्तिभेदेन मुख्यो भेद । चन्द्रस्य पुनरेकव्यक्तिरूपस्य कालभेदादवस्थाभेदाच भि- त्रत्वममुख्यमिति चेन्न । भिन्ना एव चन्द्रव्यक्तयः । अन्यो हि द्वितीयाचन्द्रोऽन्यश्च पूर्णचन्द्र। अतश्चैव द्वितीयाचन्द्रादिव्यावृत्त्या पूर्णचन्द्रप्रतीत्यर्थ मुखच्छायानुकारीति विशेषण दत्तम् । नहि शशिशब्द पूर्णचन्द्राभिधायी तस्य चन्द्रमात्रवाचकत्वात् । सङ्ख्याव्यवहारषु चन्द्रस्यैकत्वप्रती- तिरिति चेत् । हूचिजातिव्यवहारेष्वपीन्दीवरादीनामेकत्व सिद्धम् । तस्मात् कविव्यवहारे चन्द्र- गतत्वेनानेकत्यस्य व्यवहारात् तदाश्रयेणेह विध्यनुवादभावः श्रेयान् । किञ्चास्थानविनिवेशनं तच्छन्दस्य प्रतीतिविप्रकर्षायैब । यथा- “मसृणचरणपातं गम्यता भूः सदर्भा विरचय सिचयान्तं मूर्ध्नि धर्म कठोर." इंति । अत्र 'विरचय सिचयान्तमित्यत्र तच्छन्दो हेत्वर्थों विनिवेशयितव्यस्तृतीयपादादौ निवे- शितः । नच तत्र तस्योपयोग । कृतस्तत्र प्रतीतिकुण्ठत्वमुत्पादयतीति । क्वचित् प्रधानाक्रेयाया- स्तदादिसर्वनाम्ना परामृष्टस्य गुणक्रियाया स्वशब्देनोपादानं दुष्टमेव ! यथा 'प्रत्यासन्ने नभसीति । मन तस्मै इति सर्वनाना पूर्वप्रकान्तो मेघः परामृश्यत उतैतच्छ्लोकगतो जीमूतः। तत्राो पक्षे जीमूतग्रहणमनर्थक प्रधानक्रियाया तदा परामृष्टस्य पूर्वप्रक्रान्तस्यैत मेघस्यार्थतः सम्बन्धयोग्य- त्वात् । न हि यावतां येन सम्बन्धस्तावतां प्रत्येक निर्देशः क्रियते । एकत्र कृतोऽन्यत्राकाङ्क्षा- दिनोपजीव्यते । तस्माजीमूतग्रहण न कर्त्तव्य, कृतं प्रत्युत वस्त्वन्तरप्रतीति जनयद्वैरस्यमावहति । अथ तच्छब्दैनैतच्छ्लोकगतो जीमूतः प्रत्यवमृश्यते । तदसत् । सर्वत्रात्र प्रकरणे पूर्वप्रक्रान्तस्यैव मेघस्य परामर्शः स्थित इतीहापि तथैव परामर्शो न्याय्य इति पुनरपि जीमूतग्रयणमनर्थकमेव । इत्थं द्वितीयं विधेयाविमर्श विविच्य तृतीयमप्यत्रैव श्लोके प्रपञ्चयितुमुपक्रमते-४३]अपि चेत्यादिना । प्रायेणेति द्वन्द्वं वयित्वा तत्र युगपदधिकरणवचनतया सामर्थ्य प्रकारान्तरेम स- मर्थितम् । तत्राद्य इति तत्पुरुषः समानाधिकरणः कर्मधारय' इति(१-२०४२) वचनात् । 'बहु-