पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। इति । यत्र तु सवीप्सस्य प्रक्रमे सवीप्सेन प्रत्यवमर्शस्तत्र पुष्टत्वमेव यथा- “यो य शस्त्र बिभर्ति स्वभुजगुरुमद पाण्डवीना चमूना यो य पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्या गतो वा। यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रदीप्तः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ॥" इति । यत्र हानेकस्य सवीप्सस्य चानेकेन प्रत्यवमर्शस्तत्रापि पुष्टत्वमेव । यथा--- “यो यो य यमवा'नुयादवयवोद्देश स्पृशन् पाणिना तत्तन्मात्रकमेव यत्र स स ते रूप पर मन्यते। तज्जात्यन्धपुर हहा करिपते ! नीतोऽसि दुर्वेधसा को नामात्र भवेद् बताखिलभवन्माहात्म्यवेदी जन ॥" इति । यदि परं य यम् इति प्रक्रमे तत्तन्मात्रकमेवेति प्रत्यवमर्शे विधेयाविमर्श सवीप्सस्य तदर्थ स्य समासे गुणीभावात् । नैतत् । मात्रग्रहणेनावधारणमुच्यते यथा- 'प्रातिपदिकार्थलिङ्गपरिमा- णवचनमात्रे' इति । तच्चावधार्यमाणपरतन्त्रमित्यवधार्यमाणस्यैव सवीप्सस्य तदर्थस्योद्रेका प्राधान्यमखण्डितमेव । पूर्वपदार्थप्राधान्येन क्वचित् सुप्सुपेति समासो दृश्यते यथा- “निर्वाणभूयिष्ठमथास्य वीर्य सन्धुक्षयन्तीव वपुर्गुणेन । अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ।" इति । अत्र हि भूयिष्ठ निर्वाण निर्वाणभूयिष्ठमिति समासे निर्वाणार्थस्यैव प्राधान्य तस्य वीर्यविशे- षणत्वनावास्थतत्वाद् । न तद्वदिह तत्तन्मात्रकमिति तदर्थस्य प्राधान्य भविष्यति । केवल कृतेऽव- धारणार्थे मात्रशब्दे किमर्थः कप्रत्यय । तस्मिन्नपि वा कृते एवशब्द किमर्थः । एवशब्द एव वा किं न क्रियते । नैतत् । कप्रत्ययस्य तावदत्र कुत्साप्रतिपादकत्वात् । न पौनरुक्त्यं तन्तमेवेति केवलैवशब्दप्रयोगे विक्षिप्त इव तदर्थः प्रतीयते । मात्रग्रहणे तु पिण्डितस्यैव तदर्थस्य प्रतीतिरित्य- स्ति विशेषः। यदि पर योरुपादानं लोकप्रात्यनुसरणेन दृढीकृतावधारणप्रतीत्यर्थम् । दृश्यते हीह- शेषु योरवधारणप्रतिपादकयो प्रयोग. । यथा-'बाला केवलमेव रोदिति गलल्लोलोदकैरश्रुभिः'। अत्रैव तदिाते निर्वाप्सेन तदा निर्दिष्ट जात्यन्धपुरं निर्वीप्सेनैव यदा प्रत्यवमृश्यते । ततश्चात्रानुगु- णपरामर्शान्न दोष' कश्चित् । __तथा (यत्र) पूर्ववाक्ये यच्छन्दो निर्दिष्ट उत्तरवाक्ये तु (न) तच्छब्दो निर्दिष्ट., तत्र साका- क्षत्वाद् दुष्टतैव यथा-- “मीलित यदभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम्।" इति । उत्तरवाक्यगतत्वेन तु यच्छब्दप्रयोगे पूर्ववाक्ये तच्छब्दाप्रयोगे न दुष्टत्वम् , अपितु प्राक्प्र- तिपादित पुष्टत्वमेव सामान्येनोपक्रमात् पश्चाद्विशेषस्योत्थापनात् । एतदभिप्रायेण कल्पिततत्क- मादिविषयत्वमुक्तम् । उदाहरण तु 'साधु चन्द्रमसि पुष्करै कृत मीलितं यदभिरामताधिके' इति पूर्वश्लोकापाठविपर्यये यथा । यत्तच्छब्दयोरविशिष्टेऽपि परामर्शकत्वे उत्तरवाक्ये निर्दिष्टो यच्छब्दः स्वभावत आविर्येण पूर्ववाक्यार्थश्लिष्टतया वस्तु परामृशति, तच्छब्दस्तु परोक्षायमाणार्थनिष्ठ- त्वात् वैदूर्येण । आविर्य च प्रकृतार्थ प्रकृष्टता नयद्वाक्यार्थ श्लेषयति । ततश्च तथाभूते विषये यच्छब्दस्य प्रयोगाईत्वे तच्छब्दस्य प्रयोगोऽपुष्ट एव । + मूले ४१ पृष्ठे.