पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

HDMRITamananduran e २० व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। "हेना भारशतानि वा मदमुचा बृन्दानि वा दन्तिना श्रीहर्षेण यदर्पितानि गुणिने बाणाय कुत्राद्य तत् । या बाणेन तु तस्य सूक्तिविसरैरुङ्किता कीर्तय- स्तत् कल्पप्रलयेऽपि यान्ति न मनाङ् मन्ये परिम्लानताम् ॥" इति । या इति पदार्थविषयत्वमनिपातस्य तच्छब्दस्य । तदिति तु वाक्यार्थविषयस्तच्छब्दाप- दार्थविषये ता इति स्यात् । अत्रैव यद्बाणेन तु तस्येति 'ता. कल्पप्रलयेऽप' इति च पाठे यदो वाक्यार्थविषयत्वे तद पदार्थनिष्टत्व उदाहरण देयम् । तस्माद्या वाणेन त्वति ता. करपप्रलयेऽ पीति च पठनीयम् । इह तु “इन्दीवर यदतसीकुसुमस्य वृत्त्या यत् केतक जरढभूर्जदलानुवृत्त्या । यन्मन्यसे च वकुल करवीरवृत्त्या सा साम्प्रत मधुप । हन्त तवेव हानिः ॥" इति न केवल यच्छब्दो वाक्यार्थविषये, यावत्तच्छब्दोऽपि । यदि पर स वाक्यार्थो हानिपदेन पिण्डीकृत्य प्रकाशितस्तच्छब्देन परामृष्ट । अत एवात्र तच्छब्दस्य विवेयपदार्थाभिप्रायेण स्त्री- लिङ्गत्वम् । अनुवाद्याभिप्रायेण तु तत् साम्प्रतमिति । उभयथापि लिङ्गपरिग्रह शिष्टप्रवाहे स्थित । किञ्च यत्तदोर्नित्याभिसम्बन्धाद् गुणप्रवानयोश्च सम्बन्धाहत्वात् परामश्य एकत्र यच्छन्दवा- क्ये तच्छब्दवाक्ये वा निर्दिष्ट इतरवाक्ये तदा यदा वा प्रत्यवमृश्यते । यच्छन्दवाक्ये तु निर्दिष्टेन य- च्छब्दान्तरेण गुणाना प्रधानाना च परस्परमभिसम्बन्धात् । एवञ्च तथा परामर्श द्वौ दुष्टताभेदौ । यथा- “ येषा तास्त्रिदशेभदानसरितः पीता प्रतापोष्माभि- लीलापानभुवश्च नन्दनतरुच्छायासु यः कल्पिता। येषा हुकृतयः कृतामर पुरक्षोभा क्षपाचारिणा कि तैस्त्वत्परितोषकारि विहित किञ्चित् प्रवादोचितम् ॥" इति । क्षपाचारिणामिति षष्ठयन्त यच्छब्देन सम्बद्ध यच्छब्दान्तरेण प्रत्यवमृष्टम् । क्षपाचारिभि- रिति पाठो न्याय्य । एव तच्छन्दवाक्ये निर्दिष्ट यच्छब्दै परामृश्यमान न दुष्यति यथा च ----- "पुण्ड्रेक्षो परिपाकपाण्डुनिबिडे यो मध्यमे पर्वणि ख्यात किञ्च रस कषायमधुरो यो राजजम्बूफले । तस्यास्वाददशाविलुण्टनपटुर्येषा वचोविभ्रम सर्वत्रैव जयन्ति चित्रमतयस्ते भर्तृमेण्डादय ॥" इति । अत्र द्वितीये यच्छन्दवाक्ये रस- परामृश्यो निर्दिष्टस्तच्छब्देन परामृश्यते । प्रथमे यच्छ ब्दवाक्ये तु यच्छब्दपरामर्शो न युज्यते द्वयोरसम्बन्धाद् यथा- "नमोऽस्तु ताभ्यो भुवने जयन्ति ता सुधामुचस्ताश्च कवीन्द्रसूक्तयः ।। भवैकविच्छेदि कथाशरीरतामुपैति यासां चरित पिनाकिन ॥" इति कवीन्द्रसूक्तीना तच्छन्दवति वाक्ये(न) निर्दिष्टाना तच्छब्दान्तरेण परामर्शो न युक्तः । किञ्च यत्तच्छब्दयोः स्वभावेन वाक्यभेदोत्थापकत्वे यदेकतरवाक्येऽन्यतरत् पदं (प्रयुज्यान्यत- रत्१) प्रयुज्यते तदपि दुष्टमेव । यथा --- “अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्भुतरपट्टतस्य तथापि नास्था। कोऽप्येष वीरशिशुकाकृतिरप्रमेयमाहात्म्यसारसमुदायमय पदार्थः ॥" + पुरेति स्थाने पतीति पाठान्तरम् .