पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CAMPidhy intel smartAwestinuinnpe amarthernity ngianmint ormins व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । परामृष्ट । तेभ्य इति कर्तृत्ववाचकादिदमादिभ्यश्च । असौ तच्छब्द । असमन्वयादिति तच्छब्दस्य परोक्षार्थप्रतिपादकत्वे सन्बन्धविरोवादित्यर्थ । तादात्म्यायेति । शशिकलामौलि स्वरूपत्वायेत्यर्थ । आर्थ इति उपक्रमोपसहारक्रमा निर्दिष्ट । कल्पिततत्कर्मादीति । कल्पित तद् यच्छब्दनिर्दिष्ट कर्मादि विषयोऽस्येति यच्छन्दार्थ कर्मकरणादितया विषयत्वेनास्य कल्पित इत्यर्थ । सम्बन्धद्वैविध्येति शाब्दार्थभेदेन द्वैविश्यम् । यत्तदिति । यच्छब्दसमीपे समाना- धिकरणस्तच्छब्द उपादीयमान शब्दशक्तिस्वाभाव्यात् प्रसिद्धवस्तविषय यच्छन्दमाकाइभति। वैयविकरण्येन व्यवधानेन च निर्देश तु निर्दिष्टेनैव यदा समन्वय भजते । न केवल यो महतोऽप- भाषते शृणोति तस्मादपि य स पापभागि त्यत्र यद्यपि य स इति यत्तदोनैरन्तर्येण सामानावि- करण्येन च निर्देश , तथापि न 'यत्तदूर्जितमिति न्यायेन (यदि तच्छन्दानन्तर प्रत्यपेक्षायाम् ) इह यदि तच्छन्दो निरन्तरोपात्तयच्छब्दापेक्षयैव प्रयुज्यने तदा स्यादेष दोष , यावता 'न केवलं य' इत्यत्र यच्छब्दापेक्षया व्यवधानेन प्राधान्यात् प्रयुक्तस्तच्छब्दान्तरानाकाङ्क्ष प्रसङ्गेन निर- न्तरनिर्दिष्टयच्छब्दान्वय भजमान पूर्वसस्कारेण न तच्छब्दान्तरमाकाङ्क्षतीत्यनवद्यमेतत् । तदित्य यत्तदोरुपक्रमापसहारक्रमो विविध परिघटित । स चात्र श्लोके न युज्यत इत्याह-एवञ्चति । तद्रुपादान इति । (यच्छन्दो नात्र तदेति प्रक्रान्तस्तच्छब्द परामृश्यते तत्सम्बन्धप्रतीतावि- त्यर्थ ?) ननु प्रयोगदर्शनमेवात्र समर्थक भविष्यतीत्याशङ्कथ प्रयोगस्य प्रामादिकपाठविपर्यासहेतुक- त्वमाह-मीलितमिति । तदभिन्नार्थः तच्छब्दाभिन्नार्थ । तस्य अदश्शब्दस्य । तच्छब्दा- भिन्नार्थत्वेऽदश्शब्दस्य दूषणद्वयमुक्तम् । केवलादश्शब्दप्रयोगे 'असौ मरुदि'त्यादौ यच्छव्दाकाङ्क्षा स्यादित्येक यच्छन्दसहायस्यादइशब्दस्य प्रयोगे 'योऽसौ जगत्रये त्यादौ प्रयुक्ततच्छब्दाकाङ्क्षा न स्यादिति द्वितीयम् । अत्र यस्य प्रकोपेत्यदश्शब्दरहितयच्छब्दप्रयोगो दृष्टान्तत्वेनोक्तो यथास्य केवलस्य तच्छन्दाकाङ्क्षा तथादश्शब्दयुक्तस्या(पी)त्यर्थ । (* परिकल्प्यत इति ?) [४२] तस्य यथोक्तवस्त्विति यथा अविगानेन शिष्टप्रसिद्धिपारम्पर्येणोक्त वस्तु तच्छब्दार्थविविक्तो विषयस्त- स्य तन्मते असम्भव । त्वया ह्यदश्शब्दस्य तच्छब्दार्थत्वमुच्यते तत्र यच्छब्दपरामर्शापेक्षाप्रसङ्गः इत्यर्थ । परिकल्पयत इति प्रयोगप्रवाहप्रामाण्यान्यथानुपपत्त्या(वा ? )यातयाथांपत्त्येत्यर्थ । तमन्तरेणेति । तच्छब्देन प्रयोगप्रवाह परामृष्ट । मतदतदर्थत्वनिश्चयो विवक्षिताविवक्षि- तार्थत्वनिश्चयः । यदि तु तामिति तदभिन्नार्थतानुपपत्ति. परामृष्टा । गतेऽनुगत यस्य स गता- नुगतिक । मत्वर्थीयोऽत्र ठन्प्रत्यय । येनैव पथा एको गच्छति तेनैवाविचारितेनैव यो गच्छति स इत्यर्थ । ततो भावप्रत्यय । अविकल्पमित्यकारप्रश्लेष । निश्शङ्कमित्यर्थ । यद्वा न विक- ल्पमात्रेण, अपि तु साक्षादित्यर्थ । स्मृतिभूः काम. । द्विर्ताय स्मृतिभूशब्द स्मरणविषये प्र- युक्त । दग्धत्वात् स्मृतिमात्रशेष इत्यर्थः । क्षतात् वधात् । व्यवहितानामेवेति यथा 'योऽवि- कल्प'मित्यादौ । अव्यवहितत्वे वेति । यथा 'स्मृतिभूरि'त्यादौ । एतदर्थमेवोदाहरणद्वय- मुक्तम् । + 'तच्छब्दो यच्छन्दान्तर प्रत्यपेक्षायाम् इति पठितु युक्तम् * इद लेखकप्रमादादाया- तमिति भाति. पा एतत्प्रतीकप्रामाण्याद् मूले 'तदतदर्थत्वानिश्चयानबन्धनम्' इत्येव पाठोऽवसेयः । न तु तदर्थनिश्चयनिबन्धनम्' इति.