पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। इाते । कोचत्तु स्थाय्यपेक्षाइगाइगिभावो रसेधूपचर्यत इत्याहु । ततश्चाङगभूतरमकाव्य व्यावर्त्य- मस्ति विशेषग्रहणस्य । यतश्चास्फुटरसस्यापि काव्यस्य सम्भवस्ततो बनेर्भेदत्रयमभ्युपपदते। अस्फुटरसे हि काव्ये वस्त्वलकार बनी । स्फुटाडगीभूतरमे तु रसम्वनि । तत्रैव वस्त्वलद्वारम्वनि- सम्बन्धे सङ्करससृष्टी । तस्माद् ध्वनिमते सर्वमेतत् समञ्जसमेव । पक्षद्वयेऽपीति कर्तृमात्रपक्षे कर्तृविशेष च । अनन्तरोतक्रमेणेति । योऽसौ लक्षणाद्विशेषादगम सोऽनन्तरोक्त क्रम । व्यापारविशेषो लक्षणवशायातविचारमरणिमाश्रिल विशेषविशिष्ट कथनम् ॥ इति व्यक्तिविवेकव्याख्याने प्रथमो विमर्श । अथ द्वितीयो विमर्शः। एव तावत् प्रथमे विमर्श ध्वनिलक्षण दूषयित्वा ध्वनिशास्त्रगत ग्रन्थान्तर दूषयितु सामा- न्येन तावत् काव्यगतमनौचित्योल्लासरूप दूषणप्रपञ्चमुपपादयितुमाह-[३५] इह खल्वित्या- दिना । उक्तमिति सहृदय । अन्तरङ्गमिति साक्षाद् रसविषयत्वात् । आद्यैरिति ध्वनिकार- प्रभृतिभि । तदुक्तम् -- “अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम् । __ प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत् परा ॥" इत्यादिना । बहिरङ्गमिति वाच्यमुखेन रसे पर्यवसानाद् विधेयः प्राधान्येन प्रतिपिपादयिषितो योऽर्थस्तस्य अविमर्शोऽननुसन्धानम् उपसर्जनीकरणात् । प्रक्रमः कस्यचिद्वस्तुनो निर्वाहाया- रम्भस्तस्य भेदो मध्येऽन्यथीकरणम् अन्यथानिर्वाहश्र । क्रमस्य परिपाट्या भेद उल्लङ्घन व्यु- कम इति यावत् । पौनरुक्त्यं पुन प्रतिपादनम् । वाच्यस्य वक्तव्यस्य अवचनमनुक्ति । एता अवान्तरभेदभिन्ना. पञ्च दूषणजातय । यदेतदिह ग्रन्थकृता विचारसरणिमाश्रित्य विधेयाविमर्शादिदोषपञ्चकमुद्भावित, न तत्राद्य- तनपुरुषमात्रबुद्धिप्रणयनासूययानादर करणीयः । पूर्वरेवविधदोषोद्भावनरूपस्य विचारस्य प्रणी- तत्वात् । तथा हि । 'दास्याः पुत्र' इत्यादावाकोशे षष्ठया अलुक प्रतिपादयता *सूत्रकृता विधेया- विमर्शः सूचित एव । तथा 'स्वामीश्वराधिपतिदायादें' (२-३-३९) त्यत्र सूत्रे नहि भवति ‘गवा स्वामी अश्वेषु चेति वदता भाज्यकृता स्पष्टमेव प्रक्रमभेद प्रतिपादित । तथा 'कृञ्चानुप्रयुज्यते लिटि' (३-१-४०) इत्यत्रानुप्रयोगस्यानुशब्दपर्यालोचनया व्यवहितपूर्वप्रयोग 'त पातया प्रथम- मास' इत्यादौ निषेधता.चादीनां च नहि भवति ‘च वृक्ष' इत्यादिना प्रयोगनियमख्यापनेन द्योत- कृत्वं कथयता अस्थानप्रयोगलक्षण क्रमभेदः कटाक्षित एव । तथा 'कर्मधारयमत्वर्थीयाभ्यां बहुव्रीहिलघुत्वात् स्यादिति वृत्तिलाघव चिन्तयता कात्यायनेन पौनरुक्त्यमपि प्रकाशितमेव । तथा 'ईषदसमाप्तौ (५-३-६७) इत्यत्र प्रतिज्ञानसमधिगम्य सूत्रकारोक्त रूपकलक्षणमर्थ दूषयता "प्रकृत्यर्थसदृशे कल्पबादिविधानमिति प्रतिज्ञानसमविगम्यार्थभूतामुपमा व्यवस्थापयतोपमाश्रयेण ___ * सूत्र च षष्ठ्या आक्रोशे (६-३-२१) इति.