पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Connurud-Talimrandumurtur = fevrismamarindiyenainamang १२ व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः। मुगुप्साया. ससारनिन्दादौ, शमस्य कोपा(दि)भिहतस्य प्रसादोगमादौ । अनुकार्यस्यायेम्बत्वमनु- करणस्य प्रतिबिम्बत्वम् ।[१४] नानुमित इति । अत्र वाच्यापेक्षया गम्यतालक्षणस्य प्रतीयमा- नस्य चारुत्वम् । तस्यापि हेत्वाद्यैर्लोकानुमितस्य न तथास्वाद. यथा काव्ये विभावाद्यैरनुमीयमानस्ये- त्यर्थ । माणिप्रदीपप्रभयोर्विषये अभिधावतोः प्रतिपत्रोः । अत्र प्रतीतिसारत्वात् काव्य- स्थानुमेयगत वास्तवावास्तवत्वमप्रयोजकम् । उभयथा चमत्कारप्रतीतिलक्षणार्थक्रियासिद्धे। प्र- त्युतावास्तववे यथा सिध्यति न तथा वास्तवत्व हाते काव्यानुमितेरेषानुमानान्तरविलक्षणतेत्यनु- मानवादिनोऽयमभिप्राय । व्यक्तिवादिनः पुनरवस्तुमुखेन प्रतिबद्धाद्वस्तुन प्रतीतावर्थक्रियाविस- वादादस्वनुमानत्वम् । अवस्तुन एव तु प्रतीतौ कथमनुमानत्व स्यात् । अक्रिया तु व्यक्तिपक्ष उपपद्यते । व्यज्यमानस्य वासनात्मन स्थायिनो वस्तुत्वादित्याशय । शब्दस्योपसर्जन कृतार्थत्वेन विशेषण व्यक्तिवादिनो यथा सम्भवति तथा प्राक् प्रतिपादितम् । + वाचो गुणीकृता(त्म?) व व्यङ्ग्यसर्थ प्रति स्थितम् । तदर्थ तदुपादानादुदका । दृतेरिच ॥ ४ ॥ इति सड्ग्रहश्लोकः । तत्राविवक्षितवाच्ये नौ व्यञ्जकवाच्यस्यानपेक्षायत्वमेव गुणीकृतत्वमिति शब्दो गुणीकृतार्थ । शब्दे गुणीकृतार्थत्व वाच्यत्य *क्वाप्यसम्भव बाधितत्वाधान्यत्र व्यङ्ग्य प्रत्यनपेक्ष्यता ॥ ५ ॥ इति सङ्ग्रहश्लोक । शब्दस्य तु व्यापारान्तर स्वविषय एव समर्थयिष्यते । इह च सदसद्विष- यत्वेनाभिव्यक्तिर्द्विधा प्रतिपादिता । तत्रापि सद्विषया त्रिप्रकारा । शक्त्यवस्थस्य व्यक्तीभाव यथा दध्यादे । आविर्भूतस्य च घटादे सन्तमसादिप्रतिबन्धकप्रत्ययनिरासादप्रकाशमानस्य प्रदी- यादिप्रकाशकेन सहप्रकाशनम् । अनुभूतस्य च सस्कारात्मना स्थितस्य कुतश्चित प्रबोधकप्रत्ययात् प्रबोधमात्रम् । तदपि प्रबोधकत्रैविध्यात् त्रिविधम् । प्रबोधक च नान्तरीयक धूमादि, सदृशद- स्त्वन्तर, वाचक शब्द इति त्रिविधम् । तदेव पञ्चधा सद्विषया व्यक्तिः । असद्विषया त्वैकैवेति षोढा व्यक्तिराशङ्कय प्रकृते दूषिता । तत्र व्यक्तिवादिना घटप्रदीपन्यायेन सद्विषया व्यक्तिरङ्गी- कृता । यथा च न दोषस्तथोपपादितम् । शिष्ट तु पक्षपञ्चकमनभ्युपगमपराहतमेव । [१६] यात तल्लक्षणमिति व्यक्तिलक्षण प्रदीपघटादौ । उपाधिरूप इति उपाधिस्वरूपोपरञ्जनेनान्यप्रती- तिहेतुः । तथा हि ज्ञान ज्ञेय गर्भीकृत्य जातोऽयमर्थ इति ज्ञेय प्रकाशयति शब्दोऽप्यध्यवसायाश्रयेण स्वरूप प्रकाशयन्नर्थप्रकाशक । __"विषयत्वमनापन्नश्शन्दैनार्थ प्रकाश्यते । न सत्तयैव तेऽर्थीनामगृहीता प्रकाशका. ॥" इति । प्रदीपस्योपाधित्वं 'स्वज्ञानेनान्यधीहेतुरि लादिना प्रतिपादितम् । तत्र व्यक्तिवादिना यथा प्रदीपवृत्तान्त इहाङ्गीकृतो नेन्द्रियगोचरतापत्तिस्तथा प्रतिपादितं प्राक् । अतश्च अथै- तदोषमयादित्यादिना यो धूलिप्रक्षेप कृतः, स स्वमनीषिकयाशङ्कितपक्षदूषणप्रपञ्चो निरु- स्थाव एव । + 'वाचो गुणीकृतार्थत्वं न सम्भवति जातुचिद्' इति मूलकारिकायाः प्रतिकारिकेयम् ।

  • 'कापीति अत्यन्ततिरस्कृतवाच्ये निश्वासान्ध इत्यादौ ।

६ अन्यत्रेति अर्थान्तरसंक्रमितवाच्ये 'रामोऽस्मि सर्वे सहे' इत्यादौ । A