पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Connurud-Tutal imageaverters (evriemamarirituauraned on व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः । दयितु योग्यो वाच्यतासहिष्णु १) कचिच्छब्दवाच्याविति । 'द्विविधो हि शब्द पदवाक्यभेदा- दिति पूर्वोपकान्तयोः पदवाक्ययोरेवार्थ निरूपयति-निरंशत्वात् भागरहितत्वात् । वाक्या- र्थस्त्विति । तथा हि । वाक्यार्थो द्विविध. वाच्योऽनुमेयश्च । तत्र वाच्यस्यैकवाक्यार्थत्वानि- रशस्यापि विधेयानुवाद्याशरूपत्वेनाशकल्पनं क्रियते । विध्यनुवादभावमन्तरेण तयोरशयो सम- न्वयायोगाद् । विधेयश्च कश्चिल्लोकप्रसिद्धतयोपपादनानपेक्षः, कश्चित् पुनरप्रसिद्धत्वादुपपादना. पेक्षः । उपपादन चात्र नानुमानम् । अप्रतीतप्रतीत्युत्पादनाभावाद् , अपि तु शब्दप्रतात- स्यैवार्थान्तरन्यासन्यायेन समर्थनम् । ततश्चोद्भटकाव्यहेतुन्यायेनानुमान व्यवस्थितम् , अर्था- न्तरन्यासन्यायेन तूपपादनम् । सान्यसाधनभाव पुनरुभयानुयायी । अत एव वाच्यार्थविष- यादनुमेयाविषय साध्यसाधनभाव पृथग् +वक्ष्यति, ‘अनुमेयार्थविषयो यथेति । तत्रेति तयोः सिद्धासिद्धयोर्विधेयाशयोर्मभ्ये । सिद्धौ उपपादनानपेक्षत्वे । शुद्ध उपपादनानपेक्षो विध्यनुवादभावः। हिमालयो नाम नगाधिराज इति । अत्रास्तीति हि विधि. सुप्र- सिद्धत्वादुपपादनानपेक्ष । द्वितीयस्तु साध्यसाधनभावरूपो द्विविध अतिप्रसिद्धत्वादुपपादकोपा- दानानपेक्ष उपपादकोपादानापेक्षश्चेति । उपपादकोपादानापेक्षश्च द्विविधः । शान्दश्चार्थश्च । तत्र शाब्दो यत्र हेतुत्वेनोपादानम् । आर्थो यत्रोपात्तस्य हेतुत्वम् । सोऽपि च शाब्दार्थत्वभेदेन द्विविव उपपादकोपादानापेक्ष साध्यसाधनभाव प्रत्येक पदवाक्यार्थरूपतया द्विधा भवश्चतुर्धा भवति । पदार्थो हि पदार्थान्तर प्रति हेतुत्व भजते वाक्यार्थो वा वाक्यार्थान्तर प्रतीति पूर्व विधेयस्या- सिद्धावुपपादनापेक्षत्वम् । *सोऽपि च साध्यसाधनभावरूपोऽपि च । एकपदार्थगतत्वेन साध्य- साधनभावनिराकर(णा)न विरोध. कश्चित् । पदार्थस्य तु जातिगुणक्रियाद्रव्यरूपेण चातूरूग्य त- थाभूतस्य च यथासम्भवमनुभयरूपत्वेन धर्मधर्मित्वेन च भेद । धर्मस्यापि सामानाधिकरण्य- वैयधिकरण्याभ्या द्वैरूप्यम् । सामानाधिकरण्ये विशेषणद्वारेण हेतुत्वादार्थः साध्यसाधनभाव । वैयधिकरण्ये तु शाब्द. पञ्चम्यादिना हेतुत्वेनोपादानात् । वाक्यार्थस्य कारकवैचित्र्याद् वैचि- त्र्येऽपि क्रियैक्यादेकरूपत्वम् । (आगमस्य निबन्धाप्रसिद्धिरूपत्वेन द्वैरूप्यम् । अनुमानमात्र न गणितम् १) तत्र यथादिशब्दानां हेतुत्वप्रकाशकाना प्रयोगे वाक्यार्थगत शाब्दः साध्यसाधनभा- व । तत्र च क्वचिदनुमानानुमेयभावोऽप्यस्ति अप्रतीतस्य प्रतीत्यापादनाद् यथा 'सरस्यामिति वक्ष्यमाणोदाहरणे । यत्र तु हेतुत्वप्रकाशकस्य कस्यचिन्न प्रयोगस्तत्रार्थः यथोदाहरिष्यते । एव- मुपपादकोपादानापेक्ष. साध्यसाधनभाव. पदार्थवाक्यार्थयो प्रत्येकं शाब्दत्वार्थत्वभेदन चतुर्विध सन् बहुविध. प्रपञ्चित । सर्वस्य चात्य साध्यसाधनभावस्य प्रमाणसिद्धाविनाभावमूलत्वम् । प्रमाणं च त्रिधा लोकवेदाध्यात्मरूपत्वेन । तत्राध्यात्मं प्रत्यक्षम् । निबन्धप्रसिद्धरूप वेद. । अनि- बन्धप्रसिद्धस्वभाव लोक । भगथा प्रत्यक्षागमरूप प्रमाणद्वय स्वीकृतम् । आगमस्य निबन्धानि- 'बन्धप्रसिद्धरूपत्वेन द्वैविध्यम् । अनुमानमत्र न गणितं तस्योपकार्यवेन प्रस्तुतत्वात् । तत्र च- न्द्रंगतेत्यत्र कारणभूत साधनमनुपात्तमतिप्रसिद्धत्वात् । कयासि कामिनित्यत्र सापराधत्व पादानतत्वे कारणभूतं साधनमा पदार्थरूपम् । कोपनात्वं चावधूतत्वे तथाभूतमेव । लोकप्रमा- + मूले ९ पृष्ठे। *'सच' इति तु मूले पाठो दृश्यते । + कुण्डलनान्तर्गतं वाक्यमिदं लेखकेन भ्रमादिह लिखितमिति भाति ।

  • मूले ९ पृष्ठे ।