पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः। कर्तृभेदविषया विरुद्धता क्तवो निवार्य घटितक्रियाभिध । प्रौढवादरचनाविचक्षणो लक्ष्यसिद्धिमुदितान कवीन् व्यधात् ॥ ३ ॥ भावप्रधानमिति । नामपदाना पूर्वोक्तया युक्त्या सत्यपि क्रियाशम्दत्वे क्रियाया अप्रा- धान्यम् । आख्यातपदाना पुन शब्दशक्तिस्वाभाव्यात क्रियाप्राधान्यम् । असत्त्वभूतार्था इति । असत्त्वभूतत्वमसिद्धस्वभावत्वम् । त्रयाणामवान्तरविशेषसद्भावेऽपि सामान्यलक्षणम् । तानवान्त- रविशेषानाह-तेषामिति । च्यापारभेद क्रियाविशेषकत्वमुपसर्गाणाम् । प्रयोगनियमश्च तेषा वातो. पूर्व प्रयोग । निपातैस्तु चादिभिभावसत्त्वयोरात्मभेद प्रत्याय्यत इति स तेषा व्यापारनि- यम । तत्र भावगतमात्मभेदप्रत्यायन यथा पचति पठति च, मत्त्वगतन्तु देवदत्तो यज्ञदत्तश्चेति । रूप च शब्दस्वरूणदि । अर्थ. समुच्चयादि । प्रयोगनियमश्चादीना सयुच्चेतव्यादिवाचिभ्य पर- प्रयोगादि । क्रियाविशेषेति । तथा हि शाकल्यसहितामनु प्रावर्षदित्यादी निशमनादिक्रिया- विशेषोपजनितो य सहितावर्षयो कार्यकारणसम्बन्धस्तस्यानच्छेद साहिता कारण वर्ष कार्यमि- त्येवरूप , तत्प्रत्यायन कर्मप्रवचनीयाना व्यापार । प्रयोगनियमोऽत्र निपातयत् । [७द्विधेति । सुवन्ततिउन्ततया। चतुर्धेति । नामाख्यातोपसनिपातत्वेन । पञ्चधेति । कर्मप्रवचनीय पश्वमो भेद । अपोदधृत्येति वैयाकरणदर्शने वाक्यस्यैव वाचकत्वम् । तत पदानामपोद्धृत्यान्वाख्यान यथा पदेभ्य प्रकृतिप्रत्ययादीनाम् । वाक्यमिति । 'भूतभव्यसमुच्चारणे भूत भव्यायोपदिश्यते' इति न्यायेन क्रियेदम्पर्याद्वा- क्यस्य क्रियाप्राधान्यम् । साकाङ्क्षावयवमिति । देवदत्त काष्टै स्थाल्यामोदन पचतीत्यादौ वाक्य एकैकस्य पदस्य खण्डनाया साकाडक्षत्वम् । अखण्डितैस्तु पदै पर पदान्तरं नाकाक्ष्यते । गुणवत् क्रियाकारकविशेषणयुक्तम् । कोचत्तु क्रियाया प्राधान्यस्योको कारकाणां परार्थत्वाद् गुणत्वमिति तद्युतमित्याहु । एकार्थमिति । प्रधानभूतक्रियारूपैकार्थमित्यर्थ । अर्थोऽपीति । शब्दस्य व्यापारान्तरनिराकरणार्थमर्थद्वविध्यघटनम् । तथा हि । वृद्धव्य- वहारात् सङ्केताद्वा शब्देष्वर्थनिर्णय । तेषा च यत्रार्थे विद्यमानत्व तस्य वाच्यत्वमेव । अन्यरस तु तेषामभावादर्थसामथ्यांदवगति । न चासम्बद्धोऽर्थस्तमर्थ प्रत्याययति । सम्बद्धाचार्थादर्थान्तरप्र- तिपत्तावनुमानमेव । तेन लक्षणाया अनुमानान्तर्भाव प्रातेपादितो भवति । तस्य च व्यापक- त्वात् । यद्यपि च सौगतैर्लक्षणार्थव्यापार इष्यते न शब्दव्यापारः “ (पक्षो धर्मी अवयवे समुदायोपचारादि"ति शब्दोपचार परिहृत्य समुदायस्वभावार्थोपचारवचनात् , तथापि वक्ष्यमाण- नयेनानुमानलक्षणयोगादनुमानमेवैषाभ्युपगन्तव्या । न च लक्षणायामनुमानस्यान्तर्भाव इति वाच्य, तस्य तत्परिहारेण वृत्तापकत्वात् । व्यअकत्वमनुमानमेवेति वक्ष्यते वितत्य । तदेव वाच्यानु- मेयत्वभेदेनार्थस्य द्वैविध्यम् । श्रुतिमात्रेणेति । यत्रास्थ शब्दस्य श्रुतिमात्रेणोच्चारणमात्रेण तादर्थ्यम् अर्थविषयत्वं प्रतीयते स मुख्योऽर्थ । गौणम् । उक्तयुक्त्या परमार्थत आनुमा- निकम् । यत्नोपपादितं प्रतिबद्धार्थसामोपनीतम् । तत एव वाच्यात् तदनुमिताद्वा- च्यानुमितात् लिङ्गभूतात् । स च त्रिविध इति । तदेतत् प्रथममुपक्षिप्तम् 'अनुमानेऽन्तर्भाव सर्वस्यैव ध्वने प्रकाशयितुम्' इति । तदुपपादयितुमासूत्रयति । (*योग्यो वा स्वशब्देन प्रतिपा- + मूले तु व्यापारनियमपद दृश्यते ।

  • 'आद्यौ वाच्यौ स्वशब्देन प्रतिपादयितु योग्यौ वाच्यतासहिष्णू' इति पठनीयं स्यात् ।

'क्वचिच्छब्दवाच्याविति तु पाठान्तरप्रदर्शनम् ।