पृष्ठम्:वैमानिकप्रकरणम्.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोऽध्यायः
११. विस्तृतरहस्यो नाम ॥
आकाशतन्त्रोक्तप्रकारेण आकाशतृतीयपञ्चम परिधिमण्डळस्थानीय मूलवातपरिधिकेन्द्रस्थ विमानानां वाल्मीकिगणितोक्त विमानप्रस्ताररेखाविन्यासमनुसृत्य विमानस्थ एकादशरेखामुखस्थानीय कीलीचालनद्वारा तात्कालिकोपयुक्त विमानविस्तृतक्रिया करणरहस्यम् ॥
१२. विरूपकरणरहस्यो नाम ॥
धूमप्रकरणोक्तप्रकारेण द्वात्रिंशज्जातीयधूमराशि यन्त्रद्वारा परिकल्प्य तस्मिन् खतरङ्गशक्त्युष्णसञ्जनितप्रकाशं मेळयित्वा पश्चात् विमानशिरोभागस्थ भैरवीतैलसंस्कारित वैरूप्यदर्पणमुखे पद्मकचक्रमुखनाळद्वारा पूर्वोक्तप्रकाशशक्तिं सन्धार्य द्वात्रिंशदुत्तरशतकक्ष्यप्रमाणवेगात् परिभ्राम्यमाणे सति मण्डलाकारेण महाभयप्रदविकाराकारो जायते । विमानद्रष्ठॄणां तत्प्रदर्शनद्वारा महाभयोत्पादनकार्यरहस्यम् ॥
१३. रूपान्तररहस्यो नाम ॥
तैलप्रकरणोक्तप्रकारेण गृध्रजिह्वा, कुम्भिणी, काकजङ्घादितैलसंस्कारितवैरूप्यदर्पणे एकोनविंशजातीयधूमं संयोज्य, तस्मिन् यानस्थकुण्टिणीशक्तिसंयोजनद्वारा विमानद्रष्ठॄणां सिंह, व्याघ्र, भल्लूक, सर्प, गिरि, नदी, वृक्षादिविकारेण अन्यथाकल्पितरूपान्तर प्रदर्शनरहस्यम् ॥
१४. सुरूपरहस्यो नाम ॥
करकप्रकरणोक्तत्रयोदशजातीयकरकशक्तिमाकृष्य हिमोद्गारवायुना सन्धार्य पश्चात् विमानदक्षिणकेन्द्रमुखस्थित पुष्पिणी पिञ्जुळादिदर्पणमुखे पूर्वोक्तशक्तिं वातप्रसारणनाळद्वारा संयोज्य, तस्मिन् सुरघाख्यशक्तिं सन्धार्य, तद्वारा विमानसन्दर्शकानां विविधपुष्पमाल्योपसेवित दिव्याप्सरखरूपवत् विकारसन्दर्शनक्रियारहस्यम् ॥