पृष्ठम्:वैमानिकप्रकरणम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोऽध्यायः

परशब्दग्राहकश्च रूपाकर्षणकस्तथा । क्रियारहस्यग्रहणो दिक्प्रदर्शनमेव च ॥
आकाशाकाररचना जलदाकृतिरेव च । स्तब्धको कर्षणश्चेति रहस्याणि यथाक्रमम् ॥
सर्वाण्येतानि द्वात्रिंशद्रहस्याणि गुरोर्मुखात् । विज्ञाय विधिवत्सर्वं पश्चात्कार्यं समारभेत् ॥
एतद्रहस्यानुभवो यस्यास्ति गुरुबोधतः । स एव व्योमयानाधिकारीस्यान्नेतरे जनाः ॥
इत्यादि ।



एतेषां सिद्धनाथोक्तरहस्यार्थविवेचनम् । सङ्ग्रहेण प्रवक्ष्यामि रहस्यज्ञानसिद्धये ॥ ६५ ॥

१. तत्र मान्त्रिकरहस्यो नाम ॥
मन्त्राधिकारोक्तरीत्या छिन्नमस्ता, भैरबी, वेगिनी, सिद्धाम्बादिमन्त्रानुष्ठानादुपलब्ध सिद्धमार्गोक्त घुटिका, पादुका, दृश्यादृश्यादिशक्तिभिः तथा सिद्धाम्बा ओषधीश्वर्यादि मन्त्रानुष्ठानैः सम्प्राप्त ओषधीभिस्तद्द्रावकतैलादिभिश्च भुवनेश्वर्यादिमन्त्रानुष्ठानलब्ध मन्त्रशक्तिक्रियाशक्तिभिश्च कलासंयोजनद्वारा अभेद्यत्व अच्छेद्यत्व अदाह्यत्व अविनाशित्वादि गुणविशिष्टविमानरचनाक्रियारहस्यम् ॥
२. तान्त्रिकरहस्यो नाम ॥
महामाया शम्बरादि तान्त्रिकशास्त्रोक्तानुष्ठानमा तत्तच्छक्त्यनुसन्धानरहस्यम् ॥
३. कृतकरहस्यो नाम ॥
विश्वकर्म, छायापुरुष, मनु, मयादि शास्त्रानुष्ठानद्वारा तत्तच्छक्त्यनुसन्धानपूर्वकं तात्कालिकसङ्कल्पानुसारेण विमानरचनाक्रमरहस्यम् ॥
४. अन्तराळरहस्यो नाम ॥
आकाश परिधिमण्डल शक्ति सन्धिस्थानेषु विमानप्रवेशो यदा भवति, तदा उभयशक्तिसम्मर्दनेन चूर्णितो भवति । अतः विमानस्य तत्सन्धिप्रवेशसूचनात्तदन्तरालेषु विमानस्तम्भनक्रियारहस्यम् ॥