पृष्ठम्:वैमानिकप्रकरणम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वैमानिकप्रकरणे

दिवि तृतीययामाद्या चतुर्थान्तमिति स्मृतः । एकभुक्त्यधिकारत्वाद्यमिनामेवमेव हि ॥
अहोरात्रविभागेन शूद्रादीनां तु भोजने । अह्नि त्रिधैकधारात्रा विति कालविनिर्णयः ॥
जठराग्निपदीपत्वाद्योगिनां कालनिर्णयः। भोजने नास्त्य तस्तेषां यथेच्छाभोजनं विदुः ॥ इति ॥
अह्नि त्रिधा द्विधारात्रा आकाशे यन्तृणां क्रमात् । पञ्चधा भुक्तिकालस्य निर्णय:परिकीर्तितः ॥

सू. ४. तद्भावे सत्वगोलो वा.


बोधानन्दवृत्तिः -

पदत्रयं भवत्यस्मिन्नाहारान्तरबोधकम् । तदर्थ सम्प्रवक्ष्यामि समासेन यथामति ॥
आहारासम्भवे तेषां तत्सरेण कृतान्मृदून् । प्रदद्याद्धननिखाका नाहारार्थं यथाविधि ॥

॥ तदुक्तमशनकल्पे ॥


आहाराः पञ्चधा प्रोक्ताः देहपुष्टिकराश्शुभाः । अन्नकाञ्जिकपिष्टतद्रोटिका साररूपतः ॥

तेषु श्रेष्ठतरौ सत्वगोलान्नाविति कीर्तितौ ॥

॥ उक्तं हि पाकसर्वस्वे ॥

धान्यायाहारवस्तूनां सत्वमाहृत्य यन्त्रतः । पाकं कृत्वा पाचनाख्ययन्त्रभाण्डे यथाविधि ॥
उक्ताष्टमेन पाकेन सत्वगोलान्प्रकल्पयेत् । सुगन्धं मधुरं स्निग्धमाहारं पुष्टिवर्धनम् ॥ इति ॥

सू. ५. फलमूलकन्दसारो वा.


बोधानन्दवृत्तिः -

पूर्वसूत्रे धान्यसत्वाहारमुक्तं हि यानयन्तृणाम् । तथैवास्मिन्कन्दमूलफलसत्वमपीर्यते ॥
प्रथमं कन्दसत्वरस्यात् द्वितीयो मूलसत्वकः । फलसत्वरतृतीयस्यादिति सूत्रार्थनिर्णयः॥

॥ तदुक्तमशनकल्पे ॥

अलाभे धान्यसत्वस्य सत्वत्रयमुदाहृतम् । कन्दसत्वो मूलसत्वः फलसत्व इति क्रमात् ॥
पिष्टशर्करमञ्जूषमधुक्षीरघृतादयः । स्निग्धोडुक क्षार कटु कञ्जूषाम्लम्लुचाः क्रमात् ॥