सामग्री पर जाएँ

पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ तथा' वैष्णवे पुराणे, हिरण्यगर्भादीनाम्, भावनाखयान्वयात् अशुद्धत्वेन शुभाश्रयत्वानर्हत्वोपपादनात् क्षेत्रज्ञत्वं निश्चीयते । मानवश्लोकार्थनिर्णायकत्वेन श्रीविष्णुपुराणवचनमाह तथा इति । भावनात्रयान्वयात् इति । अनुष्ठयविषयः आन्तरप्रयत्नः -- भावना; स । त्रिविधा; यथा:- '* त्रिविधा भावना भूप ! विश्वमेतन्निबोधताम् । 'कर्माख्या ब्रह्मसंज्ञा' च तथा चैवोभयात्मिका ।। कर्मभावात्मिका हेका, ब्रह्मभावामिकाऽपरा । उभयात्मिका तथैवान्या, विविधा भावभावना । सनन्दनादयो ब्रह्मभावभावनया युताः । कर्मभावनया चान्ये देवाद्याः स्थावरा वराः । हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा । अधिकारबोधयुक्तषु विद्यते भावभावना । अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ।।' इति । “वेिश्वमेतत्-त्रिविधा भावना ; भावनालयान्वितम् । इत्यर्थः । ता विविध भावनां निबोध । भावनामवच्छेदकसंज्ञया निर्दिशतेि कर्माख्या इतेि । कर्माख्या कर्मभावनेत्यर्थ । एकस्यैव संज्ञालयक्लतिशङ्कव्यावृत्यर्थमाह कर्मभावात्मिका इतेि । भावभावना । *** भावार्थाः कर्मशब्दाः तेभ्यः क्रियाः प्रतीयेरन् वेदार्थसंग्रह 1. तथा च-पा० २. निर्णयन्त्रन-पा. ३. श्रीविष्णुपुराणमाह-पा. ४. कार्याख्या-पा. ७. भावो भावना, भावना-पा० ८. तेभ्यो ये प्रतीयेरन्, तेभ्यः क्रिया प्रतीयते-पाः 1. वि.पु. ६-७-४८

  • ५, पू. मी. सू. २-१-१.