तात्पर्यदीपिकायुक्तः तदेतन्निखिलजगन्निमित्तोपादानभूतात् '“जन्माद्यस्य यतः', “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ' इत्यादिमूत्रैः प्रतिपादितात् परमात् ब्रह्मणः परमपुरुषात् अन्यस्य कस्यचित् परत्वम् –“पर भतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः " इत्याशङ्कय, “ सामान्यात्तु', अतो यथोक्त एवार्थः । न च स्वरूपेण नित्यत्वम् अजायमानत्वम्, विग्रहद्वारकं जायमानत्वमिति वाच्यम्; अस्मदादीनामपि तुल्यत्वात्, “धीराः परिजानन्नि इति वक्तुमयोगात् । अत एव अजायमानत्वं परमार्थः, जन्म तु काल्पनिकमित्यपि परान्तम् । अतो यथोक्त एवार्थः । अवैदिकविप्रतिपतेः 'पर्वत्रयं दृश्यते :- * प्रकृति: पादानम् । निमित्तम्' इत्येकम्; “नारायणकारणत्वे श्रुतिभिरुपपादिते नारायणः उपादानम्, रुद्रो निमित्तम्' इत्येकम् मतम् '; तल * निमित्तोपादानयोरैक्ये दर्शिते, जगत्कारणम् मुक्तिदम्, मुक्तमाप्यम् अन्यत् परमस्ति ? इत्येकम् । तस्र * पूर्वोक्तम् मतद्वयं पूर्वमेव निरस्तम् । अथ कारणादन्यस्य प्राप्यत्वं निरस्यति तदेतत् इति । तदेतच्छब्दौ-शब्दान्तरैः समस्तौ; तस्मात्, एतस्मादित्यर्थः । पूर्वपक्षशङ्कापरं
- परमतः ?' इत्यादिसूत्रम् ; अन्यानि सिद्धान्तसूत्राणि । तेषामर्थो भाष्ये
विस्तरेणानुसन्धेय । *** एष सेतुर्विधरण :' इत्यादौ सेतुशब्दः असंकर करवार्थ: ; "* अमृतस्यैष सेतः ” इत्यपि स्वयमेव स्वस्य प्राएकः इत्यर्थ । २०८ पठादारभ्य २४९ ५टपर्यन्तम् | १. इत्यादिमेिः-पा० २. परतरत्वम्-पा० ३. खरूपेण च-पा ४, अजायमानत्वमपरमार्थः-पा० ५. प्रतिपत्तः-पा. ६. पक्षत्रयम्, पूर्वपक्षत्रयम्-पा० ७. । मतमिति काचिन्न दृश्यते ८. असंक्रत्वार्थः-पा. 1. क्र. सू. १-१-९. म. सू. १-४-२३ 3. . सू. ३.२-३०. 4. क्र. सू. ३०२-३१. 5. बृ. उ. ६-४.२२. (i. मु. उ. २-२-५.