सामग्री पर जाएँ

पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ वेदार्थसंप्रहः त्कर्मानुगुणप्रकृति 'परिणामरूपभूतसंघसंस्थानविशेषदेवादेिशरीरप्रवेशरूपं जन्म अवर्जनीयम्; अयं तु सर्वेश्वरः, सत्यसंकल्पः, भगवान् एवंभूत शुभेतरजन्म * अकुर्वन्नपि, स्वेच्छया स्वेनैव', निरतिशयकल्याणरूपेण देवादिषु जगदुपकाराय बहुधा "जायते; तस्यैतस्य शुभेतरजन्म अकुर्वतोऽपि' सर्वकल्याणगुणानन्त्येन बहुधा' योनिम्-बहुविधजन्म,

  • धीराः ) – धीमतामग्रेसराः , “जानन्ति ? इत्यर्थः ।

मानः' इति पदं व्याख्यातम् । स्वेच्छया इत्यादिना “बहुधा विजायते । इत्येतद्याख्यातम् । ब्रह्मादीनां जन्महेतु-तफल-वपूंषि' यानेि, न तान्यस्य इति “ अजायमान ' 'शब्दस्यार्थः । हेतुः – कर्म, तत्फलम् – तदनुभवः; प्राकृतं च वपुस्तेषाम्, तद्विलक्षणहेतु-फल-वपुरन्वितोऽवतार इति “बहुधा विजायते । इत्यस्यार्थः । हेतुः-स्वेच्छा, फलम्-जगदुपकारः, वपुः-अप्राकृतं चेति'।'* तस्य धीराः परिजानन्ति योनिम् ? इत्येतव्याचष्टे तस्य इति । योनिशब्दस्य उपादान 'कारणपरत्वव्यावृत्त्यर्थ * जन्म ) इत्युक्तम् । धीरशब्दस्य धैर्यगुणान्वितपरत्वव्या वृत्त्यर्थ तद्याचष्ट धीमताभग्रेसराः इति । धियमीरयन्तीति' व्युत्पन्नो धीरशब्दः । १. परिणामभूतसंघ, परिणामभूतसंस्थान , 1. पुरुषसूक्तम् । परिणामरूपभूतसंघातसंस्थान-पा. २, प्रवेशरूपजन्म-पा. ३. जन्मादि कुर्वन्नपि-पा. ४. स्वेनैव रूपेण-पा. ५. विजायते-पा. ६. शुभेतरकर्माऽकुवैतोऽपि. शुभेतरजन्म कुर्वतोऽपि-पा. ७. बहुविधयोनिम्-पा ८, तत्फलं नषि-पा० ९. शब्दार्थः-पा० १०. इतिः न दृश्यते कचित् । ११, कारणत्वपर-पा_ १२. ईरन्तीति हि-पा.