पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ अतः “ब्रह्मणः अकारवाच्यनाप्रतिपादनात्, अकारवाच्यो नारायण एव महेश्वरः ” इति सिद्धम् । तस्यैव “सहस्रशीर्ष देवम्' इति केवल परतत्त्वविशेषप्रतिपादनपरेण नारायणानुवाकेन सर्वस्मात् परत्वं प्रपश्चितम् । अनेन अनन्यपरेण प्रतिपादितमेव परतत्वम्, “ अन्यपरेषु सर्वेषु वाक्येषु केनापि' शब्देन प्रतीयमानं तदेवेति अवगम्यते ?” इति, *** शास्र दृष्टया तूपदेशो वामदेववन्' इति सूत्रकारेण निर्णीतम् ।। तदेतत् परं ब्रह्म , कचेित् " ब्रह्मशिवादिशब्दावगत * मिति केवलब्रह्म – शिवयोः न परत्वप्रसंगः '; * अस्मिन् अनन्यपरेऽनुवाके उत्तं निगमयति अतः इति । एवम्, महेश्वरशब्दस्य साधारणत्वात्, 'प्रकरणपर्यालोचनया 'च नारायणपरत्वमुक्तम् । नारायणस्यैव 'तत्तच्छब्द वाच्यस्य परत्वम् उत्तरानुवाके कण्ठोक्तमपि इत्याह तस्यैव ि । *** विश्वाधिको रुद्रो महर्षिः”, “प्रजापतिः प्रजा असृजत' इत्यादिषु अनेकेष्वपि वाक्येषु, शिवादे कारणत्वमाशङ्कयाह अनेन इति । “विश्वाधिको रुद्र ' इत्यादिवाक्यान्यपि अन्यपरत्वात् उक्तार्थानुगुणत्वेन वर्णनीयानि इत्यर्थः । केनापि शब्देन प्रतीयमानं तदेवास् ततः िकम् ? इत्यत्राह तदेतत् इति । १. केवलतत्व, केवलपरत्व-पा. वेदार्थसंग्रह ३. सर्ववाक्येषु-पा. ४. अपेिर्न दृश्यते झचितू ! ५. ब्रह्मशिमशब्द-पा० ७. परतत्त्वप्रसंगः, परत्वप्रसक्तिः-पा. ८. तस्मिन्-पा० ९. उक्तमर्थम्-पा. ११. चकारः कचिन्न । १२, तच्छब्द-या.० 1. तें. उ. ना. १३-१. 2. ब्र, सू. १-1-३१. 3. तें. उ. ना. १२-३. 4. * का. १ प्र. २.