२० ४ यथोक्त मात्स्ये '* सङ्कणाः साविकाथैव राजसाः तामसास्तथा ॥ ?' इति ॥ केचिद्रह्मकल्पाः सङ्कीर्णाः, केचित् सत्त्वप्रायाः, केचित् रजः -- प्रायाः, केचित् तमःप्रायः – इति कल्पविभागमुक्ता, सत्वरजस्तमो मयानां तत्त्वानां माहात्म्यवर्णनञ्च, तत्तत्कल्पोक्त' पुराणेषु सत्त्वादिः गुणमयेन ब्रह्मणा क्रियते, इतेि च उक्तम् :
- “यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा ।
तस्य तस्य तु माहात्म्यं तत्स्वरूपेण चण्यैते।। ?' इति । वचनं दर्शयति यथोक्तम् इति। “सङ्कीर्णाः”इत्यादिवचने प्रमाणाप्रमाणविभागकथना भावेऽपि, सात्विकादिविभागकथनस्य प्रयोजनान्तराभावात्, प्रामाण्याप्रामाण्यनिर्णय एव प्रयोजनम् – इत्यभिप्राय । उदाहृतक्षेोकं व्याचष्ट केचित् इति । सङ्कीर्णादि शब्दानां विशेष्या:-ब्रह्मकल्पाः, “यस्मिन् कल्पे तु ! इत्युक्तेरिति भाव । कल्पानां रजःप्रभृतिगुणप्राचुर्यम्, तस्मिन् कल्पे ब्रह्मणः तद्वणप्राचुर्यात् । “यस्मिन् कल्पे” इत्यदे उदाहरिष्यमाणस्य अर्थमाह सत्त्वरजस्तमोमयानां तत्त्वानाम् इति । *दैवताना मित्यर्थः । यस्मिन् इति । यस्मिन् कल्पे यत् पुराणं ब्रह्मणा उक्तम्, तस्मिन् कल्पे तत् पुराणम्--इत्यध्याहारः । 'तस्य तस्य ? इति न कल्पपरः शब्दः; न हि ब्रह्मणो दिवसानां महात्म्यं पुराणेषु बाते, “ अग्नेः शिवस्य " इति देवताविशेषवर्णन परत्वस्य वक्ष्यमाणत्वाच; 'तस्य तस्य ? इति पदं तत्तद्देवताविशेषपरम् । अतः तस्मिन् कल्पे, तस्मिन् पुराणे, तत्तद्रुणप्रचुरस्, तस्य तस्य दैवतस्य माहाल्थं वण्यते १. अयमर्थ:-केचिद्रह्मकल्पाः -पा० 1, 2. मात्स्यपुराणे । २. कल्पमेदभुक्ता, कल्पविभागादुक्त-पा. ३. चकारः कचिन्न दृश्यते । ५. इत्यादिक्चनेन-पा. ६. तत्त्वानामिति-दैवतानामित्यर्थः-पा० ७. मिस्येत्यादिदेवता-पा०