तन्निर्वहणाय' तदाधारो भूत्वा अन्तः प्रवेिश्य, अनुमन्तृतया च' नियमनं कुर्वन्, शेषेित्वेन अवस्थितः परमात्मा । एतदाहितशक्तिस्सन् सामान्येन तत्स्वातन्व्याहं प्रदाय इत्यर्थः । एवम्, ज्ञानचिकीर्षाप्रयत्नेषु 'प्रवृत्तेषु प्रकृत्यारम्भे न परमात्मापेक्षाऽस्ति, अपि तु म्वयमेव प्रवर्तते । तदानीं परमात्मा उपेक्षकः । न चैतावता नियन्तृत्ववैकल्यम्, परस्य उपेक्षाथा अपि "स्वस्वातन्त्र्या धीनत्वात् । देहसम्बन्ध'सुखदुःखाद्यन्बयदानादिना मुखान्तरेण नेियमनस्य विद्य मानत्वात्, जीवस्य नियमनार्हत्वानपगमाच ' । एवम्, उपेक्षकस्सन् प्रथमप्रवृतौ सत्याम्, पश्चादनुमन्ता परमात्मा । अत एव हि * अनुमन्तृतया च नेियभनं कुर्वन् इत्युक्तम् ? अनुमन्तृत्वं नाम – प्रवृत्तिशैथिल्यपरिहारात्मकः, तत्फलपर्यन्तत्वहेतु व्यापारः, न तु अप्रवृतस्य प्रवर्तकत्वम् । एवम् ज्ञानचिकीर्षादौ स्वातन्त्र्यात् विधि निषेधयोग्यत्वम् । नियमनवैकल्यशङ्कापरिहारार्थम् 'अनुमन्तृतया नियमनं कुर्वन्। इत्युक्तम् । सर्वप्रकारनियमनशक्तोऽपि सन्, 'सङ्कल्पादेव अनुमन्तृतया नियच्छति अनुभन्तृत्वमपि नियमनभेच, तेन विना प्रवृत्तेः फलपर्यन्तत्वायोगात् । एवम् नियमनप्रकारविशेषस्याभावे'ऽपि धारकत्वं, शेषित्वं च पृथितमिति आत्मशरीर १. तन्निर्हरणाय-पा० २. चकारः कविन्न लभ्यते । ३. जीवात्म मृत्तिनिवृत्त्यादि, जीवः प्रवृत्तिनिवृत्त्यादि-पा. ४. प्रथमप्रवृत्यारम्भे-था. ५. खातन्त्र्याधीनत्वात्, खस्वातन्त्र्याधि ८ इत्युक्तं भवति-पा० ९. तत्प्रयुक्तस्य प्रवर्तकत्वम्, न तत्प्रवृत्तस्य प्रवर्तकत्वम्-पा १०. स्त्रसङ्कल्पादेव, सङ्कल्पादेव, खसं. कल्पादेव कर्ता अनुमन्तृतया-पा. ११. विशेषाभावे-पा.
पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२८७
दिखावट