सामग्री पर जाएँ

पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैतदेवम्; '“ पृथगात्मानं प्रेरितारै च मत्चा जुष्टस्ततस्तेनामृनत्वमेति । इति, आत्मानं प्रेरितारै ' च अन्तर्यामिषं पृथक् मत्वा , ततः पृथतः ज्ञानाद्धेतोः, तेन परमात्मना जुष्टः अमृतत्वमेति इति , साक्षात् अमृतत्वप्राप्तिसाधनम्-आत्मनः, नियन्तुश्च पृथग्भावज्ञन मित्यवगम्यते । ऐक्यवाक्यविरोधात्' एतत् "अपरमार्थसगुणब्रह्मप्राप्तिविषयमिमि अभ्युप गन्तव्यम् इति चेत्, पृथक् ज्ञानस्यैव साक्षात् अमृतत्व'ग्राप्तिमाधनत्व श्रवणात् , विपरीतं कस्मात् न भवति । १. प्रेरकम्-पा० तात्पर्यदीपिकायुक्तः इति भावः । परिहरति नैतदवम् इति । 'ततः' इति व्याख्येयं पदम् । अस्य प्रकृत्यर्थं व्याचष्ट पृथक् ज्ञानात् इति । प्रत्ययार्थ व्याचष्ट हेतोः इति । 'तेन । इति व्याख्येयं पदम् । तद्याचष्ट परमात्मना इति । जुष्टः – ' 'जुषी प्रीतिसेवनयोः' – अनुगृहीत इत्यर्थः । साक्षाच्छदेन कण्ठोक्तिः विवक्षिता । अनेन ऐक्यज्ञानस्य * मोक्षसाधनत्वगम्यताव्यावृत्ति । पुनः शङ्कते ऐक्य इति । परिहरति पृथक् इति । “ पृथक्कृज्ञानस्य मोक्षोपायत्वश्रुतिविरोधात् ऐवज्ञानम् अपरमार्थविषयं स्यात् ?' इत्यर्थः । पृथक् भावज्ञानमेवेयवगम्यते-पा. ८. ऐक्यवाक्यज्ञानविरोधात्-प० ५. अपरमार्थ सगुणब्रह्म-पा. तस्य-पा ८. ऐक्यज्ञानस्यैव-पा० १८३ 1. थे. उ. १ 1२. '. सि. कौ. .ि तुदादि ।