तात्पर्यदीपिकायुक्त १७९ “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा', 'एप त आत्मा अन्तर्याम्यमृतः ', *यस्य पृथिवी शरीरं यस्यापशरीरं यस्य तेज इशारीरम्? इत्यादि , '* यस्याव्यक्त शरीरं यस्याक्षरं शरीरं यस्य मृत्यु शरीरं यस्यात्मा शरीरम् ! इति, ब्रह्मव्यतिरिक्तस्य सर्वस्य वस्तुनः, ब्रह्मणश्च शरीरात्मभावं दर्शयन्ति काश्चन, इति, नानारूपाणां वाक्या नाम् अविरोधः, मुख्यार्थापरित्यागश्च यथा संभवति, तथैव' वर्णनीयम् । वर्णितं च :-अविकारश्रुतयः स्वरूपपरिणामपरिहारादेव मुग्रुयार्थाः; शरीरात्मभावश्रुतीराह अन्तः प्रविष्टः इति ॥ एवम्, नानाविधत्वं दर्शितम् , आसां श्रुतीनां स्वोक्तार्थपरत्वमेव उप पन्नम् इति वक्ष्यन्नाह इति इति । अविरोधः, मुख्याथपरित्यागश्च यथा सम्भवति इति । परपक्षेषु अन्योन्यविरोधः, मुख्यार्थपरित्यागश्च भवतः; सगुण मेदश्रुतीनां बाध्यत्वाभ्युपगमात् विरोधः संप्रतिपन्न: ; ऐक्यश्रुतेिष्वपि “तत् त्वम्' आदिपदानां लक्षणाश्रयणात् अमुख्यत्वम् । एवम् भेदाभेदपक्षेऽ,ि निर्दोषव अविकारत्वादिपरश्रतिविरोध , “तत् त्वम् ? आदिपदेष्वपि निर्दोषत्वसदोषत्वादि व्याघातात् अन्यतरपदामुख्यत्वप्रसंगः इति भावः । तस्मात्, अविरोधेन, मुख्यत्वेन च वर्णनीयम् - वर्णयितुं युक्तमित्यर्थ । कः पुनः अविरुद्धः, मुल्यश्च अर्थ:? इत्यत्राह वर्णितं च * इति । नास्माभिः स्वबुध्द्या अर्थस्थितिः उत्प्रेक्ष्यते; पूर्वाचार्येरेव उपदिष्टः, ग्रन्थनिबद्धश्चार्थ उच्यते इति भावः । तत्र सर्वश्रुतीनां परस्परविरोधं', मुख्यार्थत्वं च दर्शयन्, अविकारश्रुतिमुख्यार्थत्वं दर्शयति अविकार इति । निर्गुणश्रुतिमुख्यार्थत्व '- १. एवकारः धन्विन्न । २. मुख्यार्थः-पा . ३० चकारः कुत्रचिन्न । ४. परस्पराबाधम्-पा. 1. आर. ३ प्र. २१. 2. वृ. उ . ५-७-३. 8, 4, सु. उ. ७.
पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२७५
दिखावट