७० एवम्, 'स्वल्पाल्पांशेन तु सर्वाश्चर्यमयं, नानारूपं जगत , * तद न्तरात्मतया प्रविश्य, ‘विष्टभ्य, नानात्वेनावस्थितोऽपि सन् ", अन वधिकातिशय – असङ्खयेयकल्याणगुणगणः, सर्वेश्वरेश्वरः , परब्रह्मभूतः, ननु * कारणावस्थया एकत्वं, कायैरुपेण नानात्वं च किमिति नोक्तं स्यात् ? उच्यते ; तदानीम् एकत्वशब्दः कारणावस्थापरः स्यात् भाक्प्रत्ययान्तत्वात्,
- कारणावस्थत्वं च अविभक्तनामरूपत्वम्, तच, विभक्तनामरूपतादशायां विरोधा
देव नास्ति; तस्मात् एकत्वे सति नानात्वाभिधानम् अयुक्तम् - इत्यभिप्रायेण एवं व्याख्यातम् । 'नानात्वे सति चैकता ' इत्येतव्याचष्ट एवम् इति। 'अवस्थितोऽपि संन । इत्यन्तेन ‘नानात्वे सतिं 'इत्येतयाख्यातम् । * लीलाविभूतिविशिष्टवैचित्र्यानुभाषण परः नानात्वशब्दः सप्तम्यन्तः-इत्यर्थः । एकतापदं व्याचष्ट अनवधिक इति । नित्यविभूतिमतया समाभ्यधिकराहित्यम् एकताशब्दार्थ । 'अनवधिक ' इत्या दिना तदुपयोगिविशेषणानि उच्यन्ते । तत्र विभूतिद्वधनियमन' धारणाद्यनुगुण गुणकत्वम्' “ अनवधिक ' इत्यादिपदेन उक्तम् ईश्वरातिरिक्तब्रह्मव्यावृत्यथै १. खसंकल्पान्नानारूपं जगत्-पा० ३. प्रविष्टभ्य-पा. ४. विष्टभ्येति ऋचिन्न । ५. सन्निति कुत्रचिन्न दृश्यते । बेदार्थसंग्रह ७. कारणावस्था च, कारणावस्थात्वं हि-पा. ८. लीलाविभूतिवैचित्र्य-पा. ९. विशेषणान्यपि-पा. १०. नियमधारणाद्यनुगुण -पा. १२, इत्यादिनोक्तम्-पा.