तदाह “विष्टभ्याहमिदं कृत्स्रमेकांशेन स्थितो जगत्।।' इति । अनन्तविचित्रमहाश्चर्यरूपं जगत्, मम * अयुतायुतांशांशेन आत्मतया प्रविश्य, सर्वं मत्संकल्पेन विष्टभ्य, अनेन रूपेण, अनन्तमहाविभूतिः । अपरिमितोदारगुणसागरः, निरतिशयाश्चर्यभूतः, स्थितः अहम्- इत्यर्थः । वेदार्थसंग्रह एवम्, सर्वशक्तयोगात् " स्वसंकल्पैकदेशेन धारकत्वे स्पष्टं प्रमाणमाह तदाह इति । तदाचष्ट अनन्त इति । अनन्तविचेिन्नमहाश्चर्यम्' – अनन्त वैचित्र्यात् * विस्मयनीयमित्यर्थः । “ अयुतायुताशाशन ' ' इत्यनेन *** यस्या युतायुतांशांशे विश्वशक्तिरियं स्थिता ? इति वचनं मारितम् । प्रशासनेन सर्व धारणश्रुत्यनुरोधादुक्तम् “मत्संकल्पेन ?' इति ; न तु एकांशेन इति अंशशब् व्याख्यानम् । अंशशब्दः स्वरूपैकदेशपर, निरंशे प्रतिपदार्थ पूर्णवर्तिन्यपि स्वरूपे अंशशब्दव्यवहारः, एकस्मिन्नेव वस्तुनि स्वरूपस्य पूर्णवृत्तिया' अन्यत्र वृत्य योग्यत्वशङ्कान्युदासार्थः । एकांशेन इत्यनेन फलितमर्थमाह अनेन रूपेण इति । एवम् , मायावादपक्षानुगुण्यशङ्कावहः “ न च मत्स्थानि ? इति ग्रन्थो व्याख्यातः । १. तदाहेति कचिन्न । तथा हि, २. “रूपम्' इति कचिन्न दृश्यते । ३. अयुतायुतांशेन, अयुतांशांशेन-पा ४. महाविभूयपरिमितोदारगुण-पाः ५. संकल्पकदेशेन-पा० ६. अनन्तविचित्रमहाश्चर्यम्-कुत्रचिदेतन्न । ७. वैचित्र्यविस्मयनीयम्-पा० ८. अयुतांशांशेन, अयुतायुतांशेन-या. ९. एकांशशब्दव्याख्यानम्, एकांशशादस्य १०. पूर्ववर्तितया-पा. 1. गीता २८-४२. 2. वि. पु. १-९-५३ .
पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२६४
दिखावट