तात्पर्यदीपिकायुक्तः १२९ वस्तुनो भेदव्यवहारहेतुः खस्य च', संवेदनवत् ; यथा संवेदनं वस्तुनो व्यवहारहेतुः, स्वस्य व्यवहारहेतुश्च भवति । अत एव' सन्भाव ग्राहिप्रत्यक्षं न भेदग्राहि-इत्यादिवादा 'निरस्ताः, जात्यादिसंस्थितस्यैव बस्तुनः प्रत्यक्षेण गृहीतत्वात्, तस्यैव संस्थानरूपजात्यादेः प्रतियो संवेदनवत् इति । संवेदनस्य स्वपरव्यवहारहेतुत्वं हि पराभ्युपगतम् ? तदेव विवृणोनि यथा इति । उक्तार्थेनैव परोक्तभेदस्य प्रमाणानुपपतिः, प्रमेयानुपपत्तिश्च परिहृता इत्याह अत एव इति । आदिशब्देन प्रमेयानुपपतिः विवक्षिता । 'अत एव' इत्यभिप्रेतमथै विवृणोति जात्यादि इतेि ! प्रत्यक्षज्ञानमेकक्षण्णवत्यैपि तस्मिन्नेव क्षणे जात्यादिविशिष्टमेव वस्तु गृह्णाति-इत्यनेन प्रमाणानुपपत्तिः निरस्ता। स्वरूपधर्म विकल्पेन हि प्रमेयानुपपत्ति । तत्र स्वरूपव्यवहारवत्, भेदव्यवहारप्रसङ्गः गोत्वादिव्यवहारादेव प्रयुक्तः । भिन्न इति 'शब्दव्यवहारविशेषस्य प्रतियोग्य पेक्षत्वं' 'दाराः, कलत्रम्, 'जलम्, आपः' इत्यादिषु स्रीत्वबहुलवपुंस्त्वादिवत् शब्दस्वभावायतम् इति नार्थस्वरूपदोषः, हानादिव्यवहारे, जात्यादिशब्दव्यवहारे च प्रतियोगिनिरपेक्षत्वात् इत्ययमर्थोऽतिस्पष्टत्वादभिप्रेतः । स्वपनेिर्वाहकत्वाभ्यु पगमेन अनक्स्था च परिहृता, जात्यादेरेव भेदत्वान् अन्योन्याश्रयश्च परिहृतः इत्यर्थः । २. अन्यव्यवहारहेतुः, क्स्नु भिन्नमिति ५. जात्यादिः-पा० ५. प्रतियोग्यपेक्षत्वात्-पा. ८. बलमिति कचिन्न दृश्यते । ९. इहाभिप्रेतः, इत्यमिप्रेतः-पा.
पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२२५
दिखावट