सामग्री पर जाएँ

पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपि च एकस्य' वस्तुनो हि भिन्नाभिन्नत्वं विरुद्धत्वात् न संभवतीति उक्तम् । घटस्य पटाद्भिन्नत्वे सति तस्य तस्मिन्नभावः । अभिन्नत्वे सति तस्य च भावः इ,ि एकस्मिन् काले च, एकस्मिन् दश च, एकस्य हि पदाथस्य युगपत् मद्भावः असद्भावश्व विरुद्धः । जात्यात्मना' भावः, व्यक्तयात्मना च अभावः इति चेत्, जातेः मुण्डेन भेदाभेदपरत्वं दृषितम् । इदानीं सामान्येन सर्धस्य वस्तुनो भिन्नभिन्नत्वं निरस्य अपि च इति । उक्तम् इति । निर्विशेषवस्तुनिरासे प्रसङ्गात् उक्तम् इत्यर्थः । तत्र 'विरुद्धत्वहेतोः सेिद्धवत्कारेण असंभव उक्तः । अत्र तदेव विरुद्धत्वं कथम् ? इतिं शङ्कायां तदुपाद्यते घटस्य इति । घटस्य 'पटद्भिन्नत्वं नाम तस्य तत्राभावः । आभन्नत्वं नाभं तत्र तस्य भावः-इत्यर्थः । ततः किम् ? इत्यत्राह एकस्मिन् इति । आकारभेदादविरोध शङ्कते जात्या इति । जातिमभ्युपगच्छाद्रः अभिमतभेदाभेदषणेन, तामनभ्युपगच्छद्भिः अभिमतभेदानेदोऽपि प्रतिक्षिप्तस्यात् इत्यभिप्रायेण 'जात्यात्मना इत्याद्युच्यते । अत्र जातिव्यक्तयोः किमभिन्नत्वम् ? उत भिन्नत्वम् ? उत भिन्नभिन्नत्वम् ? इति विकल्पमभिप्रेत्य अभिन्नत्वपक्षे दूषणमाह जातेः इति । जातिव्यक्तयोरभेदश्चेत् खण्डमुण्डव्यक्तिद्वयेन जातेरभेदात् खण्डस्य मुण्डत्वप्रसङ्ग इत्यर्थः । तत्र भिन्नत्वपक्षे व्यक्तिगतो भेदः, जातिगतश्चाभेद इति न १. एकस्येव-५. २. हिनस्ति कचित् । ३. घटाद्भिन्नत्वे-पा. ४. तस्य तादात्म्यतया तस्मिन्नभावः-पा. ६. हिनस्ति कचित् । तस्य तात्पर्यदीपिकायुक्त ८. इति चेन्न-पा. ९. मुण्डाभेदे सति-ा. १८. विरुद्धहेतोः-पा. ११. घटाद्भिन्नत्वम्मू-पl० १२, जात्याद्युच्यते-पा. तादात्म्यतय