तात्पर्यदीपिकायुक्तः १०१ नीकाकारा " इति चेत् , अनिर्वचनीयप्रत्यनीकं निर्वचनीयम् । तच सद्वा? असद्वा ? द्विरूपं चा? 'कोठ्यन्तरं न विद्यते । ब्रह्मव्यतिरेकेण एतदभ्युपगमे पुनरप्यविद्या न निवृत्ता स्यात् ; अनिर्वचनीयप्रत्यनीकं निर्वचनीयम् इति । नवर्थस्य हि स्वनिरूपक एव प्रत्यनीकः इति भाव । अनिर्वचनीयप्रत्यनीकम्—न तावत् अनिर्वचनीयम् , अपि तु निर्वचनीयमेव । तत्र वैविध्यमाह तव इति । एवं शब्दस्वभावात् पञ्चम कोटिनस्ति । अर्थस्वभावाच' तथा । अविद्यानिवृत्तिः किं ख्याता ? उत अस्याता ? अख्यातत्वे असत्वम् । ग्यातत्वे किं बाध्या ? उत अबाध्या? इति विकल्पः । बाध्या चेत्, अनिर्वचनीयता। किञ्च निवृत्तश्च' बाध्यत्वे निवयैमज्ञानं स्थितं स्यात् । निवृतरसत्वेऽपि तुल्यमेव तत् । अबाध्या चेत्, सत्वम् । अबाध्यत्वेऽपि आदिमत्वात् न सत्त्वम्' इति चेन्न । आदिमत्वं नित्यवैलक्षण्यम् । न तत् सद्वैलक्षण्यम् । प्रतिपन्नोपाधावबाध्यत्वं हि सत्यत्वम् ? तदेव हेि सत्त्वम् । त्वन्मते प्रतिपन्नेोपाधौ बाधान् सद्यावृति रित्युक्तः । तत्र सत्वपक्षे किं काल्पनिकसत् ? उत अकाल्पनिकसन् ? इति विकल्पमभिप्रेत्य, अकाल्पनिकसत्वे च ब्रह्मव्यतिरिक्तत्वपक्षे अद्वैतहानि'प्रसङ्गः । । अव्यतिरिक्तत्वपझे दूषणं वक्ष्यते । काल्पनिकसत्त्वे दृषणमाह ब्रह्मव्यतिरेकेण इति । व्यावहारिकसद्धि अनिर्वचनीयम् ? तस्मात् अविद्या न निवृत्ता स्यात् । • विवक्षित इति शेष । ३. अर्थस्वभावान् । अधाविद्यानिवृत्तिः-पा. ४, चकारः कचिन्नास्ति । ७. न तु-प० ८. “प्रतिपन्नोपाधी'-एतन्नास्ति चित | ९. सद्वथावृत्युक्तः-पा• १०. अद्वैतानिः-पा० ११. व्यावहारिकसत्त्वं निर्वचनीयम्-पाः
पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१९७
दिखावट