अपि च निर्विशेषवस्तुवादिना खर्यप्रकाशे घस्तुनि तदुपरागविशेषाः सवैशब्दैः निषिध्यन्ते इति वदता, के ते शब्दा निषेधका-इति वक्तव्यम्; '“वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्'इति, विकार नामधेययोः घाचारम्भणमात्रत्वात्, यत्तत्र 'कारणतया उपलक्ष्यते वस्तु मात्रम् तदेव सत्यम्, अन्यदसत्यमिति इयं श्रुतिर्वदति' इति चेत्, नैत दुपपद्यते । एकस्मिन् विज्ञाते सर्वमिदं चिःानं भवतीति प्रतिज्ञाते अन्यज्ञानेन 'अन्यज्ञानासंभवं मन्वानस्य एकमेव वस्तुविकाराद्यवस्थाविशेषेण पारमार्थि "पूर्वपस्तुतं हेि बेदान्तवाक्यानां भेदनिरासपरत्वम् ? तत्र वेदान्तवाक्यानां भेदनिरासपरत्वेऽपि (१) केनचिच्छब्देन ब्रह्मणो निर्देश्यत्वात्, (५) स्वयंप्रकाशत्वात्, (३) तिरोधानात्, (४) अध्यास-सत्रिवृतिभ्यां च सविशेपत्वम् उक्तम् । अत्र वेदान्तवाक्यानां भेदनिरासपरत्वमेव अनुपपन्नमित्युच्यते अपि च इत्यादिना । तदुपरागविशेष:-तदारोपितविशेषाः । के ते शब्दाः निषेधकाः इति चोद्य, उतरम् वक्तव्यम् ; तत्त अशक्यमेवेत्यर्थ पूर्व या निर्विशेषपरत्वनिरासाय सद्विद्या व्याख्याता, इदानीं तस्याः भेदनिरस परत्वमाशङ्कय निराक्रियते घाचा इत्यादिना । वाचारम्भणमात्रत्वात्-वागालम्भनमान्न त्वात्, व्यावहारिकत्वात्, अपारमर्थिकत्वादित्यर्थः। यत्तत्र कारणतयोपलक्ष्यतेवस्तु मात्रम् इति। “कार्येषु अनुवर्तमानं कारणं सन्मात्रे यद्वस्तु तदेव"इत्यर्थः। शङ्कितमर्थ दृषयति नैतदित्यादिना । चाचारम्भणमित्यादिवाक्यस्यार्थः पूर्वापरसंगतो वाच्यः; तच त्वन्मते नोपपद्यते इति वतुं पूर्वोक्तां शङ्काम् अनुवदति एकस्मिन्नित्यादिना। विकारा द्यवस्थाविशंपेण इति । विकारः-कायावस्था । आदिशब्देन कारणावस्था विवक्षिता । १. सं६-पा. ३. कारणतये उपलक्ष्यते-पा० वेदार्थसंग्रह ५ पूर्वं प्रस्तुतम्-पा० 1. छा. उ, ६-१-४
पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१६२
दिखावट