सामग्री पर जाएँ

पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तात्पर्यदीपिकायुक्त प्रत्युक्तम् । संस्थानस्य संस्थानिनः प्रकारतया पदार्थान्तरत्वम्’, प्रकार त्वादेव पृथकूसिद्धयनर्हत्वम्, पृथगनुपलम्भश्चेति न द्यात्मकत्यसिद्धिः । अत एव इत्यत्र गतिमर्थं विवृणोति संस्थानस्य इति । भेदाभेदे चत्वारो हेतवः-(१) सहोपलम्भनियमः, (२) * समानाधिकरण्य प्रत्ययः, (३) एकशब्दानुविद्धप्रत्ययः, (४) प्रथमपिण्डप्रहणे भेदकाकाराग्रहणादभेद प्रतिपतिश्च-इति । एते परिहृयन्ते-संस्थानस्य इत्यादिना । प्रकारत्यादे । नियतप्रकारत्वादित्यर्थः । (१) अपृथक्सिद्धथर्मत्वात् पृथक्मनिपत्यनत्वमिति यावत्। तत्कृतः पृथगनुपलम्भः । सहोपलम्भनियमस्तावत् संप्रतिपत्रैक्येषु भिन्नेषु च न दृष्टः। तत्र सहभावो भेदसाधकः । द्वयोरेव हि सहभावः ? नियमांशस्तू नोभयत्र। किञ्च भेदसाधकः सहभावनियमः भेदनियभसाधकः। एकसामग्रीवेद्यत्वे सति पृथक्कृस्थितेः अपृथक्स्थितत्वे सति भिन्नसामग्रीवेद्यत्वाद्वा सहोपलम्भनयमाभावः । अत्र तु अपृथक् स्तित्वे सति एकसाभप्रोवेद्यवात् सहोपलम्भनियमः। न तु अभेदात्। (२) मत्वर्थीय प्रत्ययनिरपेक्षसामानाधिकरण्यमपि अपृथसिद्धप्रकारत्वादेव उपपद्यते । (३) एक शब्दानुविद्धप्रत्ययोऽपि धम्येंकत्वात्, न तु धर्मधर्मिणोरैक्यात्-इनि हेतुन्न-परिहारः

  • प्रकारत्वादेव !) इत्यादिना अभिप्रेत । (४) प्रथमपिण्डग्रहणे भेदाग्रह

“संस्थानस्य ? इत्यादिना परिहृतः । कथम् ? उच्यते । यावृत्यनुवृत्यग्रहेण हेि भेदाग्रहः उच्यते ? न केवलं व्यावृत्यनुवृत्ती एव भेदकधर्मी: विशेषणविशेष्यभावोऽपि भेदकः । प्रथमपिण्डग्रहणेऽपि “इदम्, * इत्थम्, इ िविशेषणविशेष्यभावेनैव ग्रहणात् भेदो गृहीत एव इति । एवं प्रसंगात् भेदाभेदनिरासः कृतः । ६५ २. अनर्ह इति-१॥. ३. भेदसाधकसहभावस्य नियम.-पा ४. सिद्धत्वे-पा० ५. ग्रहणे-पा. ६. इत्थमवस्थितम्-पा०