नैतदेवम्-केन शब्देन तद्वस्तु निर्दिश्य ' तद्रता विशेषा निरस्पन्ते ? “ज्ञप्तिमात्रशब्देन ? इति चेन्न' । सोऽपि सविशेषमेव वस्तु अवलम्बते, प्रकृतिप्रत्ययरूपेण विशेषगर्मितत्वात्तस्य । '“ज्ञा-अवबोधने " इति, सकर्मकः, सकर्तृकः, क्रियाविशेष । 'क्रियान्तरव्यावर्तकस्वभाघ विशेषश्च प्रकृत्या अवगम्यते ; प्रत्ययेन च लिङ्गसङ्कयादयः । परिहरति नैतदित्यादिना । केन शब्देन इति । केनचित् 'पदेन ब्रह्म निर्दिश्य, तद्विशेषा निरसनीय ; * अनिर्दिश्य विशेषनिरसने ब्रह्मणोऽपि ' स्वेतरव्यावृत्तत्वेन विशेषत्वात्, विशेषनिषेधे ब्रह्मापि निषिद्धं स्यात् ; इति तत्परिहाराय ब्रह्म केनचित्पदेन निर्देष्टव्यमेव । वेदान्तेषु श्रूयमाणानां ब्रह्मवाचि पदानां निर्वाहाथै च केनचित्पदेन ब्रह्मणो निर्देश्यत्वमभ्युपगन्तव्यमित्यभिप्रायेण केन शब्देन इत्युक्तम् । ज्ञप्तिमात्र इत्यादि । स्पष्टम् । कथं ? सविशेक्स्त्वव. लम्बते ? इत्यत्राह प्रकृतिप्रत्ययरूपेण' इति । तदेव विवृणोति “ज्ञा-अवबोधने” इति । ज्ञप्तिमात्रशब्दस्य प्रस्तुतत्वात् 'ज्ञा-अवबोधने ' इति धातुरुक्तः । इदं, ब्रह्मवचिसर्वपदानां प्रकृतिप्रत्ययविभागस्य प्रदर्शनार्थम् । क्रियाविशेष इति । धात्वर्थत्वात्, धम्येन्तरनिष्ठत्वाच क्रियाविशेष इत्युक्तम्, न तु स्पन्दात्मकत्वात् । क्रियान्तरव्यावर्तकस्वभावविशेषश्च इति । व्यावर्तकस्वभावः-स्वयंप्रकाशत्वम् । क्रियान्तराणि हि जडरूपाणि । लिङ्गसङ्गचादय इति । ज्ञान-ज्ञप्तयादिशब्दानां लेिङ्गस्य शब्दसाधुत्वमात्रार्थत्वेऽपि देव-ईश्वर-पुरुषोत्तमादिशब्दानां लिङ्गस्य अर्थवत्त्वात् लिङ्गसङ्खयादयः-इत्युक्तम् १. “ तदूता'-इत्येतन्न दृश्यते कचिन् । | 1. थ. पा. क्रघादिपरस्पदिषु २५. ३. गर्मत्वादेव-पा. ५. चकारो न दृश्यते काचित् । ६. शब्देन-पा० ७. अनिर्देश्य-पा० वेदार्थसंग्रहः ९. सविशेषं वस्तु-पा. १०. प्रकृतिप्रत्यययोगेन-पा , ११. मात्रत्वेऽपि-पा.
पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१५६
दिखावट