तात्पर्यदीपिकायुक्तः ४९ शोधकवाक्यान्यपि निग्वधं सर्वकल्याणगुणाकरं परं ब्रह्म * शोधयन्ति। कार्थपरस्य “तत्त्वमसि ' वक्यस्य आवृतत्वात् अभ्यासोऽप्यति । चिदचिदात्मक प्रपञ्चस्य ब्रह्मविशेषणत्वं प्रमाणान्तरगोचरम् * इति अपूर्वता चास्ति । एतदर्थ ज्ञानक्तः * * तस्य तावदेव चिरम् ! इति मोक्षेोपदेशात् फलं चास्ति । एतद्विषयस्य पितापुत्रसंवादरूपत्वात् अर्थबादश्चास्ति । 'तस्मिन्नेवार्थे 'मृत्कार्य दृष्टान्तोपन्यासेन उपृपतिश्चास्ति । इति षडुविधतात्पर्यलिङ्ग विशिष्टाद्वैतविषयम् इति- आशयः, इत्यन्वयः । एवं सद्विद्यायास्सविशेष रत्वमुक्तम् । अथ शोधकवाक्यानां सविशेष परत्वमुच्यते शोधक इत्यादिना । तत्र श्रौतगुणनि धं द्विधा परिहरति निरवद्य सर्वकल्याणगुणाकरमिति पदद्रयेन । “सामान्यनिषेधः विशेषोपस्थापके सति तत्र पर्यवस्यित 'छागो वा मन्त्रवर्णात्' इति न्यायात् । तस्मात् 'अपहतपाप्मा ' इत्यादिभिः हेयगुणानां * निषिध्यमानत्वात् गुणसामान्य निषेध: तत्पर्यवसायी । इति “निरवद्यम्' इति पदस्याभिप्रायः । 'विशेषविधाने सति सामान्य निषेधस्तद्यतिरिक्तविषय एव ; यथा अमीषोमीयहिंसाव्यतिरिक्तविषय : ' ' न हिंस्यात्सर्वा भूतानेि ! इति सामान्यनिषेधः । तस्मात् ' ' सत्यकामस्सत्यसंकल्प इत्यादिभिर्मङ्गलगुणविधाने सति गुणनिषेधः तद्यतिरिक्तविषयः' इति “सर्व कल्याणगुणाकर 'मिति पदस्याभिप्रायः । आर्थभेदनिषेधः परिहरिष्यते ।
- गोचरशब्दस्य अबहुत्रीहौ नित्यपुंलिङ्गत्वात् अत्र 'प्रमाणान्तरागोचर' इति पाठेन
भाव्यमिति भाति । १. *: परम्'-एतत् बहुषु कोशेषु न }. छा. उ. ६७-१५, [दृश्यते । । 2. छ. उ. ६-१४-२ ३. बोधयन्ति-पा. ; '. पू. मी. ६-७-३९. ५. अस्मिन्नेव-पt. 1. छा. उ, ८-७. १. ६. तत्कार्य-पा 5. छा. उ. ८. १५-२. बाक्यानुवादः ७. निषेध्य-पा. 5. छा. उ. ८-७-१. ८. निषेधशब्दस्तत्पर्यवसायी-पा ९. इति मङ्गलगुण-ा. ०. अर्थगुण-प