तात्पर्यदीपिकायुक्त एकखिन् अक्षण्येव “ तत् त्वम्' इति 'द्वयोः पदयो ' तिरुक्ता । ब्रह्मणो निरवद्यत्वं निर्विकारत्वं सर्वकल्याणगुणाकरत्वं जगत्कारणत्वं च अबाधितम् ।। अश्रुतवेदान्ताः *पुरूषाः “सर्वे पदार्थाः, सर्वे जीवात्मानश्च ब्रह्मात्मकाः' इति न पश्यन्ति । सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु सिद्धिः'; वाक्यान्तराबगतसर्वज्ञत्वादि गुणविरुद्धमवेिद्याश्रयत्वादिकल्पनीयं च' इत्यभिप्रायेणाह ब्रह्मण इति । सर्वे पदार्थाश्शब्दाश्च' ब्रह्मपर्यन्तश्चेत्, ब्रह्मपर्यन्ततया पदार्थाः प्रतीयेरन्, शब्दाश्च तत्पर्यन्तत्वेन व्युत्पद्येरन् *; न च : तस्मात् नामरूपयो तथा िक्रयते तत्पर्यन्तत्वमयुक्तम् इत्यत्राह अश्रुत इति । पदार्थानां ब्रह्मपर्यन्ततया ग्रहणाभावः' वेदान्तश्रवणरूपसामग्रीवैकल्यात्, न तदर्थाभावात् इत्यर्थः । सर्वशब्दानां च इति । तस्मादेव सामग्रीवैकल्यान् ' शब्दानां 'तत्पयेन्तव्युत्पत्यभावः इत्यर्थः । न हि चक्षुषा 'गन्धग्रहणाभावे सति गन्धाभावः इत्यर्थः। सामन्यां सत्यां तत्पर्यन्तग्रहणात् पूर्वं तत्तत्पदार्थमात्रपर्यन्तत्वग्रहणम् , सामग्रीवैकल्यान् । घ्राणेन गन्धग्रहणे सतेि १. द्वयोरपि पदयोः-पा, ३. सर्वे पुरुषा:-पा० ४. सामानाधिकरण्यासिद्धिं:-पा. ५. सर्वज्ञतादि-पा, ६. कल्पनीयत्वं च-पा. ७. शब्दाश्च' एतत् कचिन्न दृश्यते ए. ब्रह्मपर्यन्तत्वम्-पा० १०, वेदान्तश्रवण-पा. ११. वैकल्याच्य ततच्छब्दानाम्-पा० २२. सत्पर्यन्तत्य-पा. १३. * गन्ध'-एतत् नास्ति कवित्
पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१३७
दिखावट