सामग्री पर जाएँ

पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मा, सर्व चास्य शरीरम् इति िवशेषतो ज्ञायते ब्रह्मात्मकत्वम्;'य आत्मनि तिष्ठन् आत्मानमन्तरो यमयति, स ते आत्माऽन्तर्याम्यमृतः ? इति च अत्रापि *** अनेन जीवेनात्मना !” इति 'इदमेव ज्ञायत इति पूर्वमेवोक्तम् । अतः सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वात् सर्वशरीरं सर्वप्रकारं सर्वेशब्दैः ब्रवाभिधीयत इति, “तत् त्वम् ” इति सामानाधि करणेन जीवशरीरतया जीवप्रकारं ब्रौवाभिहितम् । एवमभिहिते सति अथमर्थो ज्ञायते–“ त्वम्' इति यः पूर्वं देहस्या धिष्ठातृतया प्रतीतः, सः परमात्मशरीरतया परमात्मप्रकारभूतः परमात्म पर्यन्तः; अतः’ “त्वम्” इति शब्दः तत्प्रकारविशिष्टं तदन्तर्यामिणमेवाचष्ट अतः-अन्तः प्रविश्य प्रशासितृत्वादित्यर्थः । कथं विशेषतोऽवगतम्? इत्यपेक्षायाम्,

  • एवं विशेषतो ज्ञायते ? इत्युक्तमिति न पुनरुक्तिः । अस्मिन् वाक्ये प्रशासितृत्व

विशेषितात्मत्वस्य' कण्ठोक्तिः ; शरीरत्वं गम्यम् । अथ आत्मत्व, शरीरत्व कण्ठोक्तयन्वितं वाक्यमाह “य आत्मनि ?' इति । यद्यपि "शरीरशरीरिभावः श्रत्यन्तरसिद्धस्यात्, तथाप्येतत्प्रकरणे स्वरुपवयं गम्यत इत्यत्राह अत्रापि इति । ततः किं सामानाधिकरण्यसिद्धेरित्यताह अत इंतं । सामानाधिकरण्येन उपसंहारे किं प्रयोजनमित्यत्राह एवमभिहिते सति इति । बुद्धिशब्दयोस्तत्पर्यन्ताज्ञापनं प्रयोजनमित्यर्थः । परमात्मशरीरतया परमात्मप्रकारभूतः परमात्मपर्यन्तः इति । शरीरतया प्रकारत्वेन पृथक्-सिद्धि 1. अयम् घृ. उ.माध्यंदिनपाठः बृ. उ २. अत्र 'पृथक्कु...स्थिति प्रवृत्यनर्ह ५-७-२२; का पाठस्तु ‘ यो विज्ञाने इत्येतत् इचित् मूले एव वर्तते । तिष्ठन्' इति च श्रीभा. प्र, अ, .ि प. ४. अन्तर्याम्यधि. पुटम् ३२९. ४. “यद्यपि” इति केषुचिन्नास्ति । 2. छा, उ. ६-३-३. ५. शरीरिशरीभावः-पा.