२६ घटमानतां बुध्वा परिचोदयति – '“ कथन्नु भगघस्स आदेश ' इति । परिचोदितः पुनः तदेव हृदि निहितं ज्ञानानन्दामलत्वैकस्वरूपम्, अपरि च्छेद्यमाहात्म्यम् , सत्यसंकल्पत्वमिथैरनवधिकातिशयासंख्येयकल्याण गुणगणैर्जुष्टम्, अविकारस्वरूपं परं ब्रव, नामरूपविभागानर्हसूक्ष्मचिदचि द्रस्तशरीरम् " खलीलायै खसंकल्पेन, अनन्तविचित्रस्थिरत्रसरूपजग
- यथा सोम्यैकेन ?' इत्यादिना दृष्टान्तैरुपपादनात् इदं चोद्यरू५ इत्यभिप्राय ।
परिचोदयनेि इति । विवक्षितविशेषकण्ठीक्तिमकुर्वन्, सामान्येन चोदयति इत्यर्थः । वाक्यमुपादते “ कथन्नु' इति । अ५ पिता, ब्रह्मणो जगत्कारणत्वम्, तदुपयोगिगुणजातम् , उपादानत्वनिमित्तत्वमयुक्तदोषशङ्कापरिहारं च विवक्षन् कारणज्ञानेन कार्यज्ञानं लोकसिद्धं दर्शवतीत्याह परिचोदितः पुनः इत्यादिना। ज्ञानानन्दामलत्वैकस्तारूपमिति । ०* विज्ञानमानन्दं ब्रह्म ? इत्यादिशोधक वाक्यार्थो विवक्षित । स्क्रुपशव्दः धर्मिस्वरूपनिरुपकधर्मवाची । अपरिच्छेद्य माहात्म्यमित्यनेन *** अनन्त' शव्दार्थो विवक्षितः । स्वपम्-अपरिच्छिन्न मित्यर्थः । गुणतोऽप्यानन्त्यमाह सत्यसङ्कल्पत्वमित्रैः' इति । '* सत्य " शब्दार्थः माह अविकारस्वरूपमिति । अत्र स्वायूपशब्दः विशेष्यांशपर । अत्रिका रत्वादिश्रुतेर्विषयो दर्शितः । उपादानत्वप्रयुक्तविकारादिविषयं दर्शयति नामरूप इति । पूर्वम् – सूक्ष्मचिदचिद्वस्तुशरीरकम् इत्येवावदुक्तम् । अत्र नामरूप विभागानईशब्देन सूक्ष्मशब्दो व्याख्यातः । अनेन उपादानत्वप्रयुतं चोद्य परेि हृतम् । अथ निमित्तत्वप्रयुक्तं चोद्य परिहरतेि स्वलीलायै इतेि । अवाप्तसमस्त कामस्यापि लीलार्थे . जगव्यापार उपपद्यत इत्यर्थ । महायासस्पजगद्यlारस्य न लीलात्वभितेि चेत् तत्राह स्वसंकल्पेन इति । संकल्पमात्रसाध्यत्वात् नायमायास
- स्थिरत्रस = चराचर ! - श्रीभ, श्रुतप्रका. जि. , पुटम् ४४.
]. छा, उ. ६ १-३ २. कायविज्ञानम्-पा. 2. छा. उ. ६१-४: ३. संकल्पमित्रैः-पा. ४. तै. उ. आन. १-१ 4. तै, उ, आम. १ -१,