अयमर्थः-चेतकेतुं प्रत्याह-“स्तत्र्धोऽसेि; उत तमादेशमप्रक्ष्यः इति;-परिपूर्ण इव लक्ष्यसे । तानाचार्वान्प्रति तमप्यादेश भवति ? इति चेत् उच्यते । न हि विशेषणान्तरविशिष्टाकारे' विशेषणान्तरान्वयः। अपि तु एकस्मिन् धर्मिणि विशेषणद्रयान्वयो विवक्षितः । तस्मात् न ज्ञातत्व विशिष्टाकारेण सर्वत्वम्; सर्वत्वांवेशिष्टाकारेण ज्ञातता वा; किं तु सर्वत्वं, ज्ञातत्वं च एकाश्रयवर्तिनी इति, अवस्थानवगमेऽपि धर्मिणः ऐक्येन ज्ञातयः प्रयोगो मुख्य एव दृष्टः, “सोऽयं देवदत्तः, पूर्वमेव मया अयं ज्ञातश्च ” इत्यादिषु । न हि तत्र वर्तमानकालविशिष्टत्वेन पूर्वं ज्ञातः । तस्मात् परिषद्दर्शनेन “अमी पुरुषा दृष्टा: " इतिवत् इदमुपपन्नम् । एकस्य सत्यवज्ञानेन 'तद्यतिरिक्तम् मिथ्यात्वेन ज्ञातं भवतीति चेत्, न; *“येनाश्रुतं श्रुतं भवति ” इत्यादिषु वाक्येषु “मिथ्यात्वेन इत्यध्याहारः । एकविज्ञानस्य सर्वविज्ञानस्य च वैरूप्यम्, अमुल्यत्वं च ज्ञात्रभावात् । न हेि सवै मिथ्यात्वेन जानन् कचित् कश्चित् ज्ञाताऽस्ति । तस्मात् सर्वविज्ञानशब्देन 'सर्वज्ञाननिवृतिलक्षणा स्यादिति । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावाक्यं किम् ? तदात्मनैव सत्यत्वं कथम् ? तथा सति कथं प्रितज्ञोपपत्तिः : उपक्रमवाक्यं, सत्यत्वपक्षानुगुणमपि तदुपसंहार पेक्षया प्रबलम् ; न तु महावाक्यस्वारस्यापेक्षया; महावाक्यं च मिथ्यात्वपक्षानु गुणम् ; *“तत्वमसेि ?, '* मृत्तिकेत्येव सत्यम् ”, ' “सदेव...एकमेव । इत्यादिषु तथा प्रतीतेः-इति शङ्कायामाह अयमर्थ इति । प्रतिज्ञावाक्योप क्रमभूतं “स्तब्धोऽसि ?” इति अक्यमारभ्म व्याख्यातुम् , “स्तब्धोऽसि' इति श्रयमाणमध्यमपुरुषार्थस्याष्टयार्थ' माह श्रेतकेतुं प्रत्याह इति ।
- स्तब्धोऽसि ' इत्यादिश्रुतिवाक्योपादानम् । तन्न वाक्ये “स्तब्धोऽसि ? इत्य
स्यार्थमाह परिपूर्ण इव लक्ष्यसे इति । पृच्छतिधातुः द्विकर्मकः-कृकर्मकः १. आक्ररेण-पा० 1,2, छा. उ २, धम्यैक्येन ज्ञातताप्रयोगः-पा. 3. ऊा, उ. ६-५ ३.'व्यतिरिक्तम्-पा० 4. छा. उ. ६ ४, सर्धनिवृत्तिलक्षणा-पा० *** ** 6. अष्टध्यायी १