सामग्री पर जाएँ

पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १४ ] विद्वन्मनोरञ्जनी १०७ 8A १ व्याख्यातत्वात् । अस्यापीति स्पष्टार्थः । यो वै प्राणः स वायुः” इति- श्रुतेः । समष्टिव्यष्टिलिङ्गयोस्तदवस्थयोरपि सन्ध्ययोरभेदं सिद्धवत्कृत्य तत्र तैजससूत्रयोर्भागविशेषं निर्दिशति-एताविति । तदानीं स्वप्नावस्थायाम् । निद्रादिदोषदूषितस्यादृष्टादिसमुद्रोधितसंस्कारविशेषसचिवस्यान्तःकरणस्य याः संस्कारानुरूपा वृत्तयस्तादृगन्तःकरणसंसृष्टचैतन्यस्थाविद्याशक्तिविजृम्भित विष याकारास्ताभिः सूक्ष्मविषयान् जाग्रद्वासनामयानीषदस्फुटाननुभवत इत्यर्थः । न स्वप्नः स्मृतिरपरोक्षावभासितत्वात् । नापि प्रत्यक्षप्रमा सम्प्रयोगाद्य भावात् । न च सुषुप्तिः स्पष्टं विषयानुभवत् । नापि जागरितं तदुचित देशकाल निमित्तानामसम्भवात् । तथा हि –‘यथा केशः सहस्रधा भिन्नः इत्यादिना केशसहस्रांशैर्नाडीरुपमीय “एतैभिर्वा एतदास्नवति” इति स्वप्नाय ताद्दशनाडीप्रवेशं दर्शयति श्रुतिः । तथा चातिसूक्ष्मासु नाडीषु स्वप्नं पश्यतो न नदीसमुद्भवनगिरिनगरीनिवेशोचितो देशोऽस्ति येन तत्र स्थितान्नाद्यादीन्पश्येत् । ननु ‘बर्हिः कुलायादमृतश्चरित्वा” इति श्रुतेर्बहि रेव स्वप्नान्पश्यतीति चेन्न । तत्र बहिःशब्देन स्थूलशरीरोपरागाभाव मात्रस्य विवक्षितत्वात् । अन्यथा तस्मिन्नेव शरीरे नियमेन पुनर्जागरणानुपपत्तेः । तथा च श्रुत्यन्तरं —‘कुरूष्वहमद्य शयानो निद्राभिष्टुतः स्वप्ने पञ्चालान- धिगतश्चास्मिन्प्रतिबुद्धश्व’’ इति स्वप्नप्राप्तदेशान्तरापुनरागमनरहितस्यापि स्वप्नदेशस्थशरीरे जागरणं दर्शयति । अतो न तत्र जाग्रदुचितो देशः । नापि कालस्तदुचितः सम्भवति । सुहूर्तमात्रेऽपि संवत्सरशतानामनुभवात्। नाप्यु चितं निमित्तं तत्र सम्भवति । तक्षदारूमृदाद्यभावेऽप्यकस्मादेव प्रसादादे र्निष्पत्तिदर्शनात् । जाग्रदवस्थापन्नानां वस्तूनां स्वप्नेऽभावं दर्शयित्वा नूतनानां वासनात्मकानां निर्माणं दर्शयति श्रुतिः—‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान्पथः सृजते’ इत्यादिना । तस्मान्मा यामय एव स्वप्न इति द्रष्टव्यम् । तथाच न्यायः —‘मायामात्रं तु कात्स्नर्ये नानभिव्यक्तस्वरूपत्वात्” इति ॥ उक्तेऽर्थे प्रमाणमाह--प्रविविक्तभुगिति । आदिशब्दात् ‘‘तस्मादेष प्रविविक्ताहारतर इवैव भवति” इत्यादिश्रुत्यन्तरग्रहः । अत्रापीति स्पष्टार्थः । सूक्ष्मशरीरप्रपवनमुपसंहरति-एवमिति ॥ १४ ॥ १. Bih. 3. 1. 5. (योऽयं). २. Idemy 4, 2. ४. ३. Ider. ४. Iden. 4. 3. 12. ५. See Notes. ६. Brih. 4. B. 10. ७. Brch- 2008८rs 3. 2. 3. ८. Bh4. 2. 3.