पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८
[द्वैतविवेक
पञ्चदशी

कारणत्वं नोदितं स्यात् । तस्य कारणत्वं तत्रेश्वराध्यासं विना न सिध्यति; अतस्तैत्तिरीयश्रुतिस्तत्रेश्वराध्यासतात्पर्येणापि प्रवृत्तेति बोधयितुं शुद्धस्य कारणत्वबोधिकां छांदोग्यश्रुतिमुदाहरति इदमिति ।

इदमग्रे सदेवाऽसीत् बहुत्वाय तदैक्षत ।
तेजोऽबन्नांडजादीनि ससर्जेति च सामगाः ॥ ६ ॥

 इदं परिदृश्यमानं सर्वं जगदग्रे सृष्टेः प्राक् सदेवाद्वितीयं शुद्धं सद्वस्तुमात्र मेवाऽसीत् । तत्सद्वस्तु बहुत्वायानेकधा नामरूपेण भवनायैक्षत आलोचयामास । आलोचनानन्तरं तेजोऽबन्नांडजादीनि, आदिशब्देन जरायुजस्वेदजानि गृह्यन्ते । ससर्ज सृष्टवान्, इति सामगा आहुः"सदेव सोम्येदमग्र आसीदिति(छां- ६.२.१) श्रुताविति शेषः । एवं चैतदेकवाक्यत्वाय सत्यं ज्ञानमित्युपक्रान्तस्यापि शुद्धस्य तस्मादिति पंचभ्या श्रुतहेतुत्वोपपादनायोक्तेश्वराध्यासोऽप्यवश्यं स्वीकार्य इति तैतिरीयश्रुतेः परस्पराध्यासे तात्पर्यमिति स्पष्टं प्रतीयते । स चेश्वराध्यास उपक्रान्तस्य सत उत्तरत्र वक्ष्यमाणेक्षणादेरुपपादनायेत्यत्राप्यङ्गीकृत इति बोद्धव्यम्।एतेन “यतो वा इमानि भूतानी" (तै.३.१) त्यादिनोक्तं लक्षणमीश्वरस्यैवोपद्यते न तु शुद्धस्येति शंकापि परिहृता भवति ॥ ६ ॥

 ननु प्रागुक्तदिशा शुद्धेश्वरयोस्तादात्म्याध्यासो बहुश्रुतिसम्मत इति प्रती- यते । तैत्तिरीये "एतस्मादात्मन" (तै.२.१.) इत्यनेनात्मत्वेन प्रतीय मानस्य जीवस्यैतच्छब्दोपात्तेश्वरस्य चोपवर्णितजीवेश्वरपरस्पराध्यासो न श्रुत्यंतरे प्रतीयत इत्याशंकां परिहर्तुं तद्ध्यासस्फोरकां श्रुतिमुदाहरति, विस्फुलिंगेति ।


विस्फुलिंगा यथा वह्नेर्जायन्तेऽक्षरतस्तथा।
विविधाश्चिज्जडा भावा इत्याथर्वणिकी श्रुतिः ॥ ७ ॥

 यथा वह्ने: विस्फुलिंगा वह्निसमानधर्मा जायन्तेंऽनेकशः प्रभवन्ति तथैवाक्षरतो विनाशरहितात् कूटस्थाद्ब्रह्मणः “ कूटस्थोऽक्षर उच्यते” इतिस्मृतेः विविधा नानादेहोपाधिभेदभिन्नाश्चिज्जडाश्चिदचिदात्मका भावाः पदार्था जायन्ते । "तदेतत्सत्यं यथा सुदीप्तात् पावकाद्विस्फुलिंगाः सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षराद्विविधाः सौम्यभावाः प्रजायन्ते तत्र चैवापियन्ति(मुं.२.१)।