( 31 } एवावगतं तर्हि तत एव भेदसिद्धेः साम्यापत्तिरूपानुकारेण साध्यं किमस्ति । अयं चेदभिप्रायोऽत्र सूत्रकारस्य ‘भेदव्यपदेशाच्च’ इत्येव. सूत्रं करणीयम् । न त्वनुकृतेरिति । यच्च ‘‘तस्य तद्धेतुत्वं ‘दिरञ्जनः परमं साम्यमुपैति’ इति श्रुत्यन्तरप्रसिद्धम् ।” इति तन्न । विद्वान् साम्यमुपैतीति स्वगताया विद्यायाः साम्यापत्तिहेतुव- मत्रोक्तम् । न त्वपहतपाप्मवादेर्गुणस्य ब्रह्मगतस्य। यदप्युपरि “तेन दहराकाशं प्राप्तस्य उक्तफलावाप्तिः तत्साम्यापत्तिरूपा तदनु- कृतिरिति लभ्यतेय इति, तदप्यसाधु । साम्यं हि समानधर्मवत्त्वम् । अपहतपाप्मत्वादिधर्म योगात् उभयोः साम्यं तत एवावगम्यत इति श्रुत्यन्तरावसेयस्य कस्य चिदभावात् । एवं च भेदस्यैवात्र साध्यत्वात् तस्य च प्रप्यगुणस्य प्राप्नुगुण्हेतुत्वप्रतिपादनेनैव सिद्धेः ‘हेतु व्यपदेशाच्च' इत्येव सूत्र यितुमुचितम् । प्रागुक्तरीत्या भेदव्यपदेशाच इति वा । न तु ‘अनुकृतेरिति’ इति सूत्रमेवसमञ्जस' भवत श्रीकण्ठभाष्यानुरोधे । एवं सति श्रीभष्यदूषणं पापतरम् । अस्मिन् सूत्रे दहरविद्याप्रकरणस्थं वाक्यं किमप्यनुपादाय ‘यदा पश्यः’ इत्युपनिषद्न्तरे वाक्यमात्रमुदाहृत्य सूत्रार्थे वर्णितवतः श्रीभाष्यकारस्य गम्भीरं भावं श्रुतप्रकाशिकायां विवृतमपि श्रीकण्ठो न जग्राहेति प्रतिपत्तव्ये स्वयमेव तथा अप्रतिपद्य- मानः वैपरीत्येन दूषणसंरम्भमपि बिभ्रत् दीक्षितः शोच्यः । ‘अनुक्रुतेस्तस्य च’ ‘अपि स्मर्यते’ इति सूत्रद्वयं भगवद्रामानुजवत् दहराधिकरणान्तर्गतमेव कृत्वा भाष्यं रचयन् श्रीकण्ठः तद् द्वयं पृथग धिकरणं कृत्वा तमेव भान्तमनुभाति सर्वे, इत्येतद्दक्यविषयतया योजयन्तं शङ्कराचार्यं सूत्रकालुष्यकारं मन्यत इति पक्षपातरहितैः प्रदर्श
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५०
दिखावट